________________
३४२
व्याश्रयमहाकाव्ये
[ मूलराज : ]
यतो गृधाया दूरदृपक्षिश्रेण्या कत्र्य गृधालेर्बाहुल्येनान्योन्यं सान्द्रत्वादजिनं चर्म च्छन्नं परिहितं येया सेव । यस्याः पतिर्न स्यात्सैव ह्यजिनं परिधत्ते । कीदृश्या गृध्रात्या । उच्चैरत्यर्थं मांसमिष्टं यस्यास्तया । तथा शोणितमिष्टं यस्यास्तया । अत एवोपरिष्टात्सैन्यस्योपरि बहु यातं भ्रमणं यस्यास्तया ॥
I
मांसेष्टा शोणितेष्टया । इत्यत्र "अनाच्छाद" [ ४७ ] इत्यादिना वा ङीः ॥ अनाच्छादग्रहणं किम् | अजिनच्छन्ना ॥ जात्यादेरिति किम् । बहुयातया ॥ नष्टपत्नी तिष्ठत्पतिः । इत्यत्र " पत्युर्न: " [४८ ] इति वा ङीरन्तस्य नश्च ॥ परिधिमती देवतोपत्नी पतिरभूद्भवभालदृक्सपत्नी | अतिपतयो या न जातु पूर्वं ता राज्ञां पल्योतिपत्य आसन् ६६
६६. उस्रपत्न्युस्राणां किरणानां पतिः स्वामिनी द्युपतिर्व्योम स्वामिनी देवतार्क लक्षणाभूत् । कीदृक् । परिधिमती परिवेषान्विता । तथा समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी भवभालशो रुद्रललाटाक्ष्णः सपत्नी लक्षणया सदृशी पिङ्गातिसंतापिका च । रविर्हि परिधिमान्पिङ्गोतिसन्तापकश्चारिष्टाय स्यात् । तथ या राज्ञां पत्यो भार्या जातु कदाचिदप्यतिपतयो भर्तारमतिक्रान्ता नासन्कुलाङ्गनात्वेन या: पतिच्छन्दोनुवर्तिन्य आसन्नित्यर्थः । ता अतिपढ्यो भर्तारमतिक्रान्ता दुर्विनीता आसन् । एतदप्यरिष्टम् ॥
उस्रपत्नी द्युपतिः । इत्यत्र “सादे: " [ ४९ ] इति वा ङीनश्वान्तादेशः ॥ मुख्यादित्येव । अतिपतयः ॥ गौणादपि केचित् । अतिपत्यः ॥
सपत्नी । इत्यत्र “सपल्यादौ " [५० ] इति ङीर्नश्चान्तादेशः ॥ पत्न्यः । इत्यन्न “ऊढायाम्" [ ५१] इति ङीर्नश्चान्तादेशः ||
१ ए सी डी पृा. २ ए सी डी यथा से. ३ सी डी 'व्योम्नस्वा', ४ सी दृशा रु. ५ बी का वा । २. ६ बी था रा° ७ ए सी 'पदयो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org