SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ [है० २.४.३६. ] चतुर्थः सर्गः । ३३७ सहकेशाः सर्वतोप्यकेशा अपशोफा विकफा मयाः सुवेगाः । आरुरुहुर्विद्यमान केशा स्तोयदृतिक्रोडाः स्त्रियो भटानाम् ॥ ५७ ॥ ५७. विद्यमानकेशाः स्त्रियो रणे भटानां जलपानाय तोयदृतिर्जलभृतखल्ले: कोडेङ्के यासां तास्तथा सत्यो मयाः सण्ढीर्वेसर्वा रुरुहुः । कीदृशीः । सर्वतः सहकेशा अलूनवालास्तथा सर्वतोकेशा अपि लूनकेशाश्च । तथापशोफा विगतश्वयथस्तथा विकफा विगतश्लेष्मकाः । एतैन नीरोगतोक्तिः । अत एव सुवेगाः ॥ दीर्घमुखायां गजाः पदव्यां छायामूर्ध्वमुखीमधोमुखां वा । स्वामप्यसहिष्णवो वृता दृक्ष्वविकेश्यापव्यर्क्षकेशया च ॥ ५८ ॥ ५८. दीर्घं मुखं प्रारम्भो यस्यां तस्यां पदव्यां बहुगम्यत्वात्प्रलम्बे मार्ग इत्यर्थः । गजा दृक्षु नेत्रेष्वावृता आच्छादिताः । कया । पट्या वाट्या वाजवन्या । कीदृश्या । अवेर्मेषस्य केशा यस्यां तयोर्णामय्येत्यर्थः । यद्वा । अविगतकेशया सकेशयेत्यर्थः । तथा ऋक्षाणां भालूकानां केशा यस्यां तया च ऋक्षवालनिर्मितया च । यत: स्वामपि च्छायां प्रतिबिम्बमसहिष्णवो मदान्धत्वात्प्रतिद्विपोयमित्याशङ्कयाक्षमणशीलाः । कीदृशीम् । ऊर्ध्वमुखीं नद्यादिजल ऊर्ध्ववकामधोमुखां वा आतपे चाधोवां वा ॥ अथैवं प्रस्थितस्य ग्राहारे: पराजयसूचकान्यरिष्टानि वृत्तद्वादशकेनाह ॥ नाभिमुखास्तुङ्गनासिका कानासिक्यो लम्बोष्ठ्य उन्नतोष्ठाः । लम्बोदर्यः कृशोदराः काजङ्घाः पृथुजेङ्क्षयोन्वयुः पिशाच्यः ॥५९॥ ५९. स्पष्टम् । किं तु । नाभिरिव मुखं यासां ता नाभिमुखा अति१ ए बी सी डी मूर्द्धमु. २ ए बी सी 'जोन्व'. १ ए सी 'लः । कोडे'. २ ए सी 'ते नी. ३ ए सी नेत्र्येष्वा ४ बीणां भल्लू. ५ ए बी सी डी ऊर्द्धमु. ६ ए बी सी डी ऊर्द्धव. ७ सी पे वाधो. ૪૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy