SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ .२९६ व्याश्रयमहाकाव्ये [ मूलराजः ] तथाविधा या अङ्गनास्ताभिर्निःपूतोत्पादिता श्री शोभा यत्र तत् । तथा तत्क्षणादेव प्रादुः पदट्टे व्यवहारार्थं प्रकटीभवदापणमत एव कामासक्तानामर्थासक्तानां च जनानां रक्षार्थं दुःपुप्तसुषुप्तवर्जिता दुष्टस्वापशोभनस्वापाभ्यां रहिता: सर्वथा जागरूका भटा योधा यत्र तत् । गन्धर्वपुर्येपि तात्कालिकानिः पुप्तस्मरत्वादिविशेषणविशिष्टा सती द्रष्टृ - णामाचर्याद्धर्षं करोति । शार्दूलविक्रीडितं छन्दः ॥ प्रादुःष्युरप्सरस आजिमहः स विषयात्सेसिच्यमान इषुभिर्भटपिस्स्यमानः । तत्राभिसेधितुमना अभिसोष्यते यो गङ्गासुः स इति सैन्यभटाः प्रदध्युः ।। १६० ।। १६०. सैन्यभटाः प्रदेध्युरचिन्तयन् । किमित्याह । भटपिरस्य - मानो युद्धार्थ योधैर्गम्यमानः । अत एवेषुभिः सेसिच्यमानोत्यर्थ व्याप्यमानः । स प्रसिद्ध आजिमहो रणोत्सवो विष्याद्विशेषेण संपद्यताम् । ततश्चाप्सरसः प्रादुःष्युराजिकौतुकदिदृक्षया भटवुवूषया च प्रकटीभवन्तु । “विधिनिमन्त्रणा " [ ५.४.२८. ] इत्यादिनात्र प्रार्थने सप्तमी । एतेन भटानां रणविषयोभिलाषातिरेक उक्तः । तथा तत्राजिमहेभिसेधितुमना गन्तुकामो यो भटोभिसोष्यते धारातीर्थे स्नास्यति शत्रुभट - सिध्यते वा स भटो गङ्गासुसूः सुरापगायां स्नातुमिच्छुर्देवीभवितुमिच्छतीत्यर्थः । रणे हि मृताः स्वर्गे यान्तीति स्मृतिरिति ॥ विष्कश्नत् । विष्कम्भि । इत्यत्र “स्कनः " [ ५५ ] इति षः ॥ निःषमाः । दुःषमाः । सुपमाः । विषमाः । निःषूति । दुःपूति । सुषूतयः । १ ए श्रीशो. २ डी नां र ३ ए सी डी सुप्त ४ सी 'दध्यार ५ बी 'तुकादि ६ ए विष्वन• बी विष्कम्नत् । सी डी विष्वभूत् ।. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy