SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] निरन्तरं स्यूतं सेवनं यत्र तन्निष्यूतं यथा स्यादेवं विषीव्यन्ति स्म तृणै: प्रोयन्ते स्म । किंभूताः सन्तः । परिष्यता इव परिष्यता दृशो येषां ते पुढेष्वत्यन्तं न्यस्तदृशः । यतो भृतिर्मूल्यं सैव वशीकारकत्वात्परिषया बन्धनानि तैर्बद्धा वशीकृताः । वशीकृता हि दुष्करमपि कुर्वन्ति ॥ वृक्षा विषेहिरे भारं प्रहारं परिषेहिरे । २८८ ? निषेहुञ्चानिसोढव्यं विष्किरैरपरिष्कृताः ॥ १४४ ॥ १४४. विष्किरैः पक्षिभिरपरिष्कृता अपरिवारिताः । सैनिकभयेन मुक्ता इत्यर्थः । वृक्षा भारं वर्मपल्ययनादिसंबन्धिनं विषेहिरे । तथा प्रहारमिन्धनाद्यर्थं कुठारादिघातं परिषेहिरे । तथानिसोढव्यं सोदुमशक्यं शाखाभङ्गादि च निषेदुः । यौजादिकस्य विकल्पेन ण्यन्तस्य सहो रूपमिदम् । येप्यपरिष्कृता एकाकिनो रङ्काः स्युस्तेपीन्धनादीनां भारं चपेटादिप्रहारं चानिसोढव्यं दुर्वाक्यादि च सहन्त इत्युक्तिः ॥ विसोढं परिसोढव्यं कष्टं मातो विसीषहः । 1 निसी षिवोर्करुग्भर्मेति युक्त्या कोप्यदात्स्थुलम् || १४५॥ १४५. कोपि स्त्रीवश आतपकष्टनिवारणाय स्थुलं पटकुटीमदादबघ्नात् । कया । इत्येवंविधया युक्त्या भार्यावचनेन । यथा परिसोढव्यं कष्टं मार्गश्रमादि सोढमतोस्मात्परं कष्टुं मा विसीषहः । कष्टं सहमानां मां मा प्रयुङ्क्थाः । कष्टमेव स्पष्टयति । अर्करुग्भिः सूर्यातपैः aara faraोर्करुचः कर्यो निषीव्यन्ति संबध्नन्ति मामात्मना तास्त्वं मा प्रयुङ्क्थाः ॥ यद्वा । अर्करुचो निषीव्यन्ति संबध्नन्ति मया सह कष्टं तास्त्वं मा प्रयुङ्क्थाः । आतपकष्टं निवारयेत्यर्थ इति || १ बी 'रिस्कृता २ सी सीपि ३ ए विसी. १ बी निष्टतं. २ बी 'रिता ३ बी रिष्टता ४ बी 'ता से. ५ सी ज्यादि ६ ए बी सी 'नन्त'. ७ बी 'रिस्कृता. ८ ए सी डी र्मा विसी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy