________________
२८२
व्याश्रयमहाकाव्ये [मूलराजः] तत्वेनाप्रतिहतादेशो द्वास्थः प्रतीहारोसमञ्जसादन्यायानिषिषेध । एतेन मूलराजस्यात्यन्तमाज्ञैश्वर्यमुक्तम् ॥
भुवि द्विपान्यषेधन्ये दिग्गजान्यषिषेधिषन् । तरून्मूर्धाभिषिक्तेभास्ते न्यषिश्चन्मदाम्भसा ॥ १२८ ॥ १२८. ते मूर्धाभिषिक्तेभाः पट्टहस्तिनस्तरून्मदाम्भसा न्यषिञ्चन्नस्नपयन् । ये भुवि द्विपान्न्यषेधन् । मदोल्बणतया सर्वगजजैत्रत्वाद्भुवि प्रतिद्विपप्रचारं ररक्षुरित्यर्थः । तथा दिग्गजान्न्यपिषेधिषन्यकर्तुमैच्छन् । एतेन स्वर्गेपि येषां प्रतिमल्ला द्विपा न सन्तीत्युक्तम् ॥
पादौ निषिषिचुस्तोयैषिषिक्षश्च सर्पिपा ।
श्रमाभिषङ्गान् द्वङ्गयोभ्यषिषङ्कन जलाईया ॥ १२९ ॥ १२९. मृदङ्गयः स्त्रियः श्रमाभिषङ्गान्मार्गजखेदसंबन्धाद्धेतो: पादौ जलैर्निषिषिचुः क्षालितवत्यः । सर्पिषा घृतेन न्यपिपिक्षश्च सेक्तुमैच्छंश्च । अभ्यतमैच्छन्नित्यर्थः । तथा जलाईया जलक्तवस्त्रेणाभ्यविषकन्संबन्धयितुमैच्छंश्च । स्नानघृताभ्यङ्गजलार्द्राबन्धनैहि शीतक्रियाभिः श्रम उपशाम्यति ॥
वणिजोभ्यषजन्सौस्थ्यं परिष्ठाप्यापणान्पथि ।
अनतिस्थितयस्तत्राभिषषजः क्रयार्थिनः ॥ १३० ॥ १३०. स्थिति नातिक्रान्ता अनतिस्थितयो यथोचितस्थानस्थाः समर्यादा वा वणिज: पथि आपणान् हट्टान्परिष्ठाप्य संस्थाप्य विस्तार्य सौस्थ्यमभ्यषजन्नाश्रिताः । व्यवहारप्रवर्तनेन सुखिता बभूवुरित्यर्थः । १ बी दौ न्यपि. २ ए सी डी मृत्यङ्गयो'. ३ वी भिषिष. १ ए सी डी मृत्यङ्गय . २ सी जरवेद'. ३ सी डी श्च सक्तु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org