SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९२ व्याश्रयमहाकाव्ये [ मूलराजः मीशः सन् पापिष्टमेतं जगत्पापे प्रवर्तयन्तं न निग्रहीष्यसि तदैतत्पापेन त्वमपि ग्रहीष्यस इत्युक्तम् ॥ एवमसावनिगृहीत: परलोकेहित इत्युक्त्वा यथेह लोकेप्यहितस्तथाह ॥ अप्यन्तकं स्थाम निकारयेत्स निकारयेस्तं यदि नात्मदण्डैः । उपेक्षिताः स्खं ह्यविकारयद्भिः सद्भिः खलाः कैन विकारयेयुः॥८९॥ ८९. यदि त्वं तं ग्राहारिमात्मदण्डैः स्वसैन्यैः कर्तृभिर्न निकारयेनिग्रहेण न तिरस्कारयसि तदा स ग्राहारिः स्थाम बलेनान्तकमपि । आसतामन्ये युष्मादृशा नृपाः । सर्वत्रास्खलितबलं यममपि निकारयेद्वाहरिपुः स्वस्थामान्तकं निकुर्वत्प्रयुञ्जीत । स्वस्थाम्ना यममपि पराभवेदित्यर्थः । संभावने सप्तमी । एतेनास्मिन्ननिगृहीते महारोगवद्वर्धमानेसाध्यतां गते त्वमपि विनयसीत्युक्तम् । एतदेवार्थान्तरन्यासेन (द)ढयति। हि यस्माद्धेतोः स्वमात्मानमविकारयद्भिः। अविकुर्वाणं स्वं प्रयुञ्जानैरविकृतीभवद्भिरित्यर्थः । सद्भिरुपेक्षिताः सन्त: खला दुर्जना: कैः कर्तृभिर्न विकारयेयुः कान्विकुर्वाणान्न प्रयुञ्जीरन् । किं तु सर्वानपि स्वपदप्रच्यावनादिना विकृतान्कुर्युरित्यर्थः ॥ . विहारयेजनतां कुवम । विहारयेन्मृत्युपथं तेन । इत्यत्र गत्यर्थत्वात्प्राप्तौ । स्वमविकारयनिः । कैर्न विकारयेयुः । इत्यत्राकर्मकत्वात्प्राप्तौ । अहारयस्तं दण्डम् । हारयेद्धर्ममधेन । अन्तकं स्थाम निकारयेत् । दण्डैस्तं निकारयेः । इ. त्यत्र चाप्राप्तौ "हकोर्न वा" [८] इत्यणिकर्ता णौ कर्म वा ॥ १ बी स्थाम्ना ब. २ सी डी नक्ष्यसी'. ३ ए °णं स्वयं प्र. सी एफ णं स्वप्र. ४ बी कृतैर्भव. ५ एफ् रयेयुरित्य. ६ सी डी "प्तौ । आहा . ७ एफ येरित्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy