SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९० व्याश्रयमहाकाव्ये [ मूलराजः आश्रमा मुनिस्थानानि तेषां या एण्यो मृग्यस्ता अपि । आसतां तावद्वनस्था मृग्यः प्रभासतीर्थाश्रमावस्थित्यातिपावित्र्यादवध्या अपीत्यपेरर्थः । आक्रन्दयन् । ऋन्दिरत्रान्तर्भूतण्यर्थः सकर्मकः। तीर्थाश्रमैणीरप्याक्रन्दतः कर्णाद्यवयवग्रहेणाराटयतश्चित्रकायान्प्रयुञ्जानः संश्चित्रकायैरेव कर्तृभिः प्रभासतीर्थाश्रमणीरपि खादयति ॥ तदेवमस्यात्यपन्यायकारितामतिबलिष्ठतां च प्रतिपाद्याधुना कार्यमाह । शब्दायय हायय माध दूतस्तं भक्षयन्तं जगताप्यभक्ष्यम् । शारीढूिपान्वाहय वाहयाज्ञां तद्दण्डचण्डां ननु दण्डनेत्रा ॥८७॥ ८७. तत्तस्माद्धेतोः । नन्विति संबोधने । हे राजन्नभक्ष्यं गोमांसादि कर्म जगताप्यास्तां तावदात्मना लोकेनापि का भक्षयन्तम् । उपलक्षणत्वादभक्ष्यभक्षणाद्यन्यायेषु जगदपि प्रवर्तयन्तं सन्तमित्यर्थः । तं ग्राहारिं दूतैः कर्तृभिर्मा शब्दायय मा वादय । तथा दूतैर्मा ह्वायय माकारय किं तु द्विपान शारीहस्तिपर्याणानि वाहय । शारीर्धारयतो द्विपान् प्रयुङ्घ युद्धाय सन्नाहयेत्यर्थः । तथा दण्डनेत्रा सेनान्या का दण्डचण्डां तन्निग्रहरौद्रामाज्ञां वाहय प्रापय तं विनाशयेत्यर्थः ।। गत्यर्थ । अजीगमत्खेदमिलाम् ॥सामान्यबोधार्थ। अबोधयद्वाररुजं फणीन्द्रम् ॥ विशेषबोधार्थ । अदर्शयत्कालपुरीमरातीन् ॥ आहारार्थ । अभोजयत्तत्पिशितं पिशाचान् ॥ शब्दक्रिय । बन्दीकृतान्दण्डमवीवदत् ॥ शब्दव्याप्य । आश्रावयन्वाचं बन्दीकृतान् ॥ नित्याकर्मक । संस्थापयन् पादम् ॥ इत्यत्र “ग १ एफ चण्डी न. १ ए °न्दतीः क. २ एफ "त्यन्या. ३ एफ चण्डी त°. ४ सी त्यर्थः । अ. ५ ए एफ धार्थः । अ. ६ एफ धार्थः । अ. ७ सी एफ रार्थः । अं. ८ ए सी मकः । सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy