SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [है० २.१.३८.] द्वितीयः सर्गः । १४७ दिशे पूर्व तमोभिभूतत्वेनानुकम्पितायै प्रत्यक्षायै पूर्वस्यायवतंसान्नु रक्तपुष्पमुकुटानिव सृजता कुर्वता । निशि हि द्यावापृथिव्योस्तमसा व्याप्तत्वान्निजपरयोर्ज्ञानं नासीद्रव्युदये तु बभूवेत्यर्थः ॥ एभिः । इत्यत्र “अनक्” [३६] इत्यत् ॥ अनगिति किम् । ईमिकस्यै ॥ अनेन । अनयोः । इत्यत्र "टौस्यनः" [३५] इति-अनः॥ अयम् । इयम् । इत्यत्र "अयम्" [३८] इत्यादिना-अयमियमौ । साकोप्ययमियमादेशौ भवतः ॥ अन्येत्वादेशे कृते पश्चादकमिच्छन्ति । अयकम् ॥ दीपा इमे रव्युदये न राजन्त्यतीदमो हव्यभुजोपि नामी । स्य एष नेन्दु स तारकौघो दैवाद्यतः कोपि कदापि सश्रीः ३१ ३१. इमे रात्रौ येराजस्ते दीपा रव्युदये सति न राजन्ति नि:प्रकाशत्वात् [निष्प्रकाशकत्वात् ? ] । तथामी ये रात्रावराजंस्तेतीदमोतितेजस्वित्वादिमान् दीपानतिक्रान्ता हव्यभुजोप्यग्नयश्च न राजन्ति । तथा स्यो रात्रिं योतिप्रकाशितवान् स ऐष प्रत्यक्ष इन्दुरपि न राजति । तथा स तारकौघो न राजति । यद्वा युक्तमेवैतद्यतो दैवाद्विधिवशात्कोपि कदापि सश्रीः श्रीयुत: स्यात् ॥ संध्या तनुाहयसकाविनोसावैशीद्वयोरप्यमुयोस्तृतीया । त्वं चासुको मौरजिती त्रयीयं साक्षात्ततो नादमुयङ् पुमान्कः ॥ ३२. हे राजन् । असकौ रव्युदयेन गतप्रायत्वादल्पेयं संध्या प्रभातसंध्या ब्रह्मण इयं ब्राह्मी तनुर्मूर्तिः । एवं किल श्रूयते । पुरा सिसृ १ डी त्वं वासु. १ एफ इमक. २ एफ ते सति प. ३ ए सी एव प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy