SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट : ७ ज्ञानमीमांसा ज्ञान मीमांसा के स्रोत ज्ञान मीमांसा में ज्ञाता, ज्ञान और ज्ञेय के स्वरूप और सम्बन्धों पर विचार किया जाता है। प्रस्तुत आगम (नंदी) का प्रारम्भ ज्ञान से होता है। ज्ञान के पांच प्रकार हैं नाणं पंचविहं पण्णत्तं, तं जहा-आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं ।' ज्ञान का स्वरूप ज्ञान आत्मा का गुण है । करणादिसाधनो ज्ञानशब्दो व्याख्यातः ।। अयं ज्ञानशब्द: करणादिसाधन इति व्याख्यातः पुरस्तात् । इतरेषां तदभाव: ।९। इतरेषामेकान्तवादिनां तस्य ज्ञानस्य करणादिसाधनत्वं नोपपद्यते। तत्कथमिति चेत् ? उच्यतेअात्माभावे ज्ञानस्य करणादित्वानुपपत्तिः कर्तुरभावात् ।१०। येषामात्मा न विद्यते तेषां ज्ञानस्य करणादित्वं नोपपद्यते। कुतः ? कर्तुरभावात् । सति हि देवदत्ते छत्तरि परशो: करणत्वं दृष्टम् । तथा चात्मन्यसति नास्य करणत्वम् । तत एव भावसाधनत्वमपि नोपपद्यते-ज्ञातिर्ज्ञानम् इति । न ह्यसति भाववति भाव इति । स्यादेतत्-जानातीति ज्ञानमिति कर्तृसाधनत्वमिति; तन्न; निरीहकत्वात् । न हि निरीहको भावः कर्तृत्वमास्कन्दति । निरीहकाश्च सर्वे भावाः । किञ्च, पूर्वोत्तरापेक्षस्य लोके कर्तृत्वं दृष्टम् । न च तस्य ज्ञानस्य पूर्वोत्तरापेक्षास्ति क्षणिकत्वात्, अतो निरपेक्षस्य कर्तृत्वाभावः । किञ्च, करणव्यापारापेक्षस्य लोके कर्तत्वं दृष्टम् । न च ज्ञानस्यान्यत् करणमस्ति । अतोऽस्य कर्तृत्वमपि नोपपद्यते । स्वशक्तिरेव करणमिति चेत्, न; शक्तिशक्तिमद्भेदाभ्युपगमे आत्मास्तित्वसिद्धेः । अभेदे च दोषस्तदवस्थ एवेति । सन्तानापेक्षया कर्तृकरणभेदोपचार इति चेत् ;न; परमार्थविपरीतत्वे मृषावादोपपत्तेः, भेदाभेदविकल्पनयोरुक्तदोषप्रसङ्गाच्च । मनश्चेन्द्रियञ्चास्य करणमिति चेत् ; न; तस्य तच्छक्त्यभावात् । मनस्तावन्न करणम, विनष्टत्वात् षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः [अभिध. २१७] इति वचनात् । नेन्द्रियमप्यतीतम् तत एव। नाप्युपजायमानस्य करणत्वम् । नहि सव्यविषाणं युगपदुपजायमानमितरस्य विषाणस्य करणं भवति । किञ्च, प्रकृत्यर्थादन्यस्याभावात् । 'ज्ञा' इत्यस्याः प्रकृतेरवबोधनमर्थः, न तस्मादन्यः कश्चिदर्थोस्ति यः कर्तृत्वमनुभवेत्, अतोऽस्य कर्तृत्वाभावः । किञ्च, एकक्षणविषयं यत्कर्तृत्वं तदनेकक्षणगोचरोच्चारणलब्धजन्मा कर्तृशब्देन कथमुच्यते ? कथं वाऽयमेकक्षणेऽसन् वाचक: स्यात् ? सन्तानावस्थानाद् वाच्यवाचकभावसम्बन्ध इति चेत् ; न ; तस्य प्रतिविहितत्वात् । अथ मतमेतत् , खात्पतिता नो रत्नवृष्टिः, अवाच्यमेव हि तत्त्वमिष्यते । अव्यापारेषु हि सर्वधर्मेष वाग्व्यवहारो नास्त्येवेति; तदपि नोपपद्यते; स्ववचनविरोधात्, तत्त्वप्रतिपत्त्युपायापह्मवप्रसङ्गाच्च । किञ्च, जानातीति ज्ञानमिति कर्तृसाधनत्वं नोपपद्यते । कुतः ? विशेषानुपलब्धेः । येन हि कर्तृसाधनत्वमवगतं करणादिसाधनत्वं च तेनेदं युज्यते वक्तुम् –'कर्तृसाधनमिदं न करणादिसाधनम्' इति । न च क्षणिकवादिनः प्रत्यर्थवशवतिज्ञानविकल्पनायाम् अनवधारितोभयस्वभावस्य तद्विशेषोपलब्धिरस्ति । न हि शुक्लेतरविशेषानभिज्ञस्य 'शुक्लमिदं न नीलादि' इति विशेषणमुपपद्यते । अस्तित्वेऽप्यविक्रियस्य तदभावः, अनभिसंबन्धात् ।११॥ आत्मनः अस्तित्वेऽपि ज्ञानस्य करणाद्यभावः । कुतः ? अनभिसंबन्धात् । यस्य मतम् -आत्मनो ज्ञानाख्यो गुणः तस्म'च्चार्थान्तरभूतः, "अात्मेन्द्रियमनाऽर्थसन्निकर्षात् यन्निष्पद्यते तदन्यत्' [वैशे. सू. ३।१।१८] इति वचनादिति तस्य ज्ञानं करणं न भवितुमर्हति । कुन: ? पृथगात्मलाभाभावात् । दृष्टो हि लोके छेत्तुदेवदत्ताद् अर्थान्तरभूतस्य १. नवसुत्ताणि, नंदी, सू. २ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003616
Book TitleAgam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1997
Total Pages282
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy