________________
६९०
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास तत्पट्टे जयशेखराख्यसुगुरुः श्रीवज्रसेनस्ततस्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतकः । तत्पट्टे प्रभुरत्नशेखरगुरुः सूरीश्वराणां वरस्तत्पट्टाम्बुधिपूर्णचन्द्रसदृशः श्रीपूर्णचन्द्रप्रभुः ॥४॥ तत्पट्टेऽजनि प्रेमहंससुगुरुः सर्वत्र जाग्रद्यशाः, आचार्या अपि रत्नसागरवरास्तत्पट्टपद्मार्यमा । श्रीमान्हेमसमुद्रसूरिरभवठ्ठीहेमरत्नस्ततस्तपट्टे प्रभुसोमरत्नगुरुवः सूरीश्वराः सद्गुणाः ।।५।। तत्पट्टोदयशैलहेलिरमलश्रीजेसवालान्वयाऽलङ्कारः कलिकालदर्पदमनः श्रीराजरत्नप्रभः । तत्पट्टे जितविश्ववादिनिवहा गच्छाधिपाः संप्रति, सूरिश्रीप्रभुचन्द्रकीर्तिगुरवो गाम्भीर्यधैर्याश्रयाः ॥६॥ तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता । शुभा सुबोधिकानाम्नी श्रीसारस्वतदीपिका ॥७॥ श्रीचन्द्रकीर्तिसूरीन्द्रपादाम्भोजमधुकरः । श्रीहर्षकीर्तिरिमां टीकां प्रथमादर्शकेऽलिखत् ॥८॥ अज्ञातध्वान्तविध्वंसविधाने दीपिकानिभा । दीपिकेयं विजयतां वाच्यमाना बुधैश्चिरम् ।।९।। स्वल्पस्य सिद्धस्य सुबोधकस्य सारस्वतव्याकरणस्य टीकाम् । सुबोधिकाख्यां रचयाञ्चकार सूरीश्वरः श्रीप्रभुचन्द्रकीतिः ॥१०॥ गुण-पक्ष-कला (१६२३) संख्ये वर्षे विक्रमभूपतेः । टीका सारस्वतस्येषा सुगमार्था विनिर्मिता ॥११||) इति श्रीमन्नागपुरीयतपागच्छाधिराजभट्टारकश्रीचन्द्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका समाप्ता । अस्मिन् समाप्ते । समाप्तोऽयमिति
ग्रन्थः
।
A. P. Shah, Ibid, Part II, No. 5974, Pp 376-377.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org