SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीशांतिसागरमुनिवर्यस्य जन्मपत्रिकावफल वंदित्वादौ शांतिसिंधुं मुनि श्रीशांतिसागरम्॥ तजन्मपत्रिका-जीर्णो-द्धारं कुर्वे यथामति॥१॥ (प्राचीन कर्नाटकभाषा में लिखी जीर्णपत्रिका का जीर्णोद्धार कर इस पत्रिका की जैन दर्शन के महान विद्वान व सुप्रसिद्ध ज्योतिष उदगाँव निवासी पं. अप्पाशास्त्री ने वीर निर्वाण संवत् २४४८ को निर्मिति की) 'शकनृपतिशालिवाहन-चतुर्णवत्यधिकसप्तदशशतवर्षे । शुभज्येष्ठकृष्णपक्षे तिथिषष्ट्यां सौम्यवासरे चापि॥१॥ गतघटिवसुपंचाशत्प्रभातसमये बृहस्पतेवरि। पूर्वाभाद्रपदाया-स्तृतीयचरणेच शोभने योगे॥२॥ एतस्मिन् शुभदिवसे भोजनामे स्थितोभीमगौडः । तद्भार्याशीलवती सत्यवती नामिका तयोरुदरे॥३॥ दामोदर इतिनामाप्ययं महात्मा सुतः समजनिष्ट। अपिचास्य सातगौडा व्यवहारे वदति सर्वजनतेह ॥४॥ जन्मफलश्रुतिमस्य ज्योतिःशास्त्रानुसारतो वक्ष्ये। पूर्वाभाद्रपदानक्षत्रस्य तृतीयचरणेजननात्॥५॥ अयमतिसुंदररूपो दाता दारित्र्यसुजनसंतोषः। सत्कीर्तिमान् सुपुण्योधन्योदारश्च देवगुरुभक्तः॥६॥ धर्माचाररतः सन् स्वस्थानोद्योगिभव्यसत्पुरुषः । किंचिच्च कंठरोगी व्यवहारज्ञः क्षमागुणः शांतः ॥७॥ अपिचास्य कुंभराशी-तत्फलमनुवर्ण्यते यथाशास्त्रम्। रूपी परोपकारी प्रियवादी सद्विनेयजनतानाम्॥८॥ विनयगुणी नृपमानी ह्यसत्यद्वेषीच राजभयदूरः । दीनोऽपिचान्नदाता सज्ज्ञानी सद्गुणी रतिविरक्त: ॥६॥ जन्मद्वितीयवर्षे प्राणभयं तत्तृतीयवर्षे च। वातभयं वैरागंनवमे वर्षेच बालग्रहपीडा॥१०॥ षोडशवर्षेऽपिच पशुभयमपमृत्योर्भयंखवेदाब्धे। गण्डान्तरेषु चैवंगतेषु सत्स्वप्यशीतिवर्षायुः ॥११॥ आदौ कर्नाटभाषायां केन कातिकेन चित् । लिखितांपत्रिकांजीर्णां दृष्ट्वा तदनुसारतः॥६॥ १. शक १७६४ वर्षे, २. स्त्रीसुखविरक्तः, ३. ४० वर्षे, ४.८० वर्षायुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003601
Book TitleCharitra Chakravarti
Original Sutra AuthorN/A
AuthorSumeruchand Diwakar Shastri
PublisherBharat Varshiya Digambar Jain Mahasabha
Publication Year2006
Total Pages772
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy