SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांग सूत्र अभिक्रामति च खलु तावत् तावच्च खलु महदुदकं महान् सेयः प्रहीणस्तीरादप्राप्तः पद्मवरपुण्डरीकं नोऽर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः द्वितीय पुरुषजातः ।।सू० ३।। ___ अथापरस्तृतीयः पुरुषजातः, अथ पुरुषः पश्चिमायाः दिश आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तद् महदेकं पद्मवरपुण्डरीकमानुपूर्कोत्थितं यावत् प्रतिरूपम् । तौ तत्र द्वौ पुरुषजातौ पश्यति प्रहीणौ तीरादप्राप्तौ पद्मवरपुण्डरीकं नोऽर्वाचे नो पाराय यावत् सेये निषण्णौ । ततः स पुरुषः एवमवादीत् -अहो ! इमौ पुरुषी अखेदज्ञौ, अकुशलौ, अपण्डितो, अव्यक्तौ, अमेधाविनौ, बालौ, नो मार्गस्थौ, नो मार्गविदौ, नो मार्गस्य गतिपराक्रमज्ञौ, यतः इमौ पुरुषौ मन्येते-आवामेतत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यावः। न च खलु एतत् पद्मवरपुण्डरीकमेवम् उन्निक्षेप्तव्यम्, यथैतौ पुरुषौ मन्यते । अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो मार्गविद् मार्गस्य गतिपराक्रमज्ञः अहमेतत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यामीति कृत्वाऽऽगतः, इत्युक्त्वा स पुरुषोऽभिकामति तां पुष्करिणी, यावद् यावद् अभिक्रामति तावत् तावच्च खलु महदुदकं महान् सेयः यावदन्तरा पुष्करिण्याः सेये निषण्णः तृतीयः पुरुषजातः ॥सू० ४॥ ___ अथापरश्चतुर्थः पुरुषजातीयः। अथ पुरुषः उत्तरस्याः दिशः आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूा उत्थितं यावत् प्रतिरूपम् । तान् त्रीन् पुरुषजातान् पश्यति प्रहीणान् तीरादप्राप्तान् यावत् सेये निषण्णान् । ततः स पुरुषः एवमवादीद्- अहो ! इमे पुरुषाः अखेदज्ञाः यावद् नो मार्गस्य गतिपराक्रमज्ञाः । यस्मादेते पुरुषाः एवं मन्यन्ते वयमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामः । न च खलु पद्मवरपुण्डरीकमेवमुन्निक्षेप्तव्यं यथैते पुरुषाः मन्यन्ते । अहमस्मि पुरुषः खेदज्ञो यावन्मार्गस्य गतिपराक्रमज्ञः अहमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामीति कृत्वा (अत्रागतः) इत्युक्त्वा स पुरुषः पुष्करिणीं यावद् यावच्चाभिकामति तावत तावच्च महदुदकं महान सेयः यावन्निषण्णश्चतुर्थः पुरुषजातीयः ।।सू० ५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy