SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४४० सूत्रकृतांग सूत्र वि वोच्छिजिहिति तसा पाणा भविस्संति । अवोच्छिन्नेहिं तस थावरेहि पाहि जणं तुब्भे वा अन्नो वा एवं वदह-पत्थि णं से केइ परियाए जाव णो णेयाउए भवइ ॥सू० ८०॥ संस्कृत छाया तत्र आराद् ये त्रसाः प्राणाः, येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्ते तत आयु: विप्रजहति विप्रहाय तत्र आराच्चैव यावत्स्थावराः प्राणाः, येषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तः, अनर्थाय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तः, अनर्थाय दण्डो निक्षिप्तः । ते प्राणा अप्युच्यन्ते ते त्रसा अप्युच्यन्ते, ते चिरस्थितिकाः यावदयमपि भेदः स नो नैयायिको भवति। तत्र ये आरात त्रसाः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः, ते तत आयुः विप्रजहति विप्रहाय तत्र परेण ये त्रसाः स्थावराश्च प्राणा:, येषु श्रमणोपासकस्य आदानश आमरणान्ताय दंडो निक्षिप्तस्तेषु प्रत्यायान्ति तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, ते प्राणा अपि यावदयमपि भेदः स नो नैयायिको भवति । ___तत्र आराद् ये स्थावराः प्राणाः येषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तः, अनर्थाय दण्डो निक्षिप्तः, ते तदायुः विप्रजहति, विप्रहाय तत्र आराच्चैव ये त्रसाः प्राणाः, येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति, तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति। ते प्राणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते आराद् ये स्थावराः प्राणाः, येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनर्थाय दण्डो निक्षिप्तः। ते तदायुः विप्रजहति विप्रहाय ते तंत्र आराच्चैव ये स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनर्थाय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनर्थाय निक्षिप्तः । ते प्राणा अप्युच्यन्ते, ते यावदयमपि भेदः स नों नैयायिको भवति । तत्र ये ते आरात् स्थावराः प्राणाः, येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनर्थाय निक्षिप्तः । तत आयुः विप्रजहति विप्रहाय तत्र परेण ये त्रसस्थावराः प्राणाः, येषु श्रमणोपासकस्यादानश आमरणान्ताय दण्डो निक्षिप्तस्तेष प्रत्यायान्ति, तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति । ते प्राणा अपि, यावदयमपि भेदः स नो नैयायिको भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy