SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सप्तम अध्ययन : नालन्दीय ४२७ आदानशः आमरणान्तं दण्डः निक्षिप्तो भवति । ते तत: आयुः विप्रजहति, ततो भूयः स्वकमादाय दुर्गतिगामिनो भवन्ति ते प्राणी अप्युच्यन्ते, ते त्रसा अप्युच्यन्ते, ते महाकायांस्ते चिरस्थितिकाः, ते बहुतरका आदानशः इति स महतः येषु वदथ तच्चैव अयमपि भेदः स नो नैयायिको भवति । __ भगवांश्च खलु उदाह-सन्त्येकतये मनुष्याः भवन्ति, तद्यथा --अनारम्भाः, अपरिग्रहाः, धार्मिकाः धर्मानुगाः यावत् सर्वेभ्यः परिग्रहेभ्यः प्रतिविरताः, यावज्जीवनं येष श्रमणोपासकस्य आदानशः आमरणान्तं दण्ड: निक्षिप्तः, ते ततः आयुः विप्रजहति, ते ततो भूयः स्वकमादाय सद्गतिगामिनो भवन्ति, ते प्राणा अप्युच्यन्ते ते वसा अप्युच्यन्ते यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये मनुष्याः भवन्ति, तद्यथाअल्पेच्छाः अल्पारम्भाः अल्पपरिग्रहाः धार्मिकाः, धर्मानुगाः, यावदेकतः परिग्रहादप्रतिविरताः, येषु श्रमणोपासकस्य आदानत: आमरणान्तं दण्डो निक्षिप्तः ते ततः आयुः विप्रजहति ततो भूयः स्वकमादाय स्वर्गतिगामिनो भवन्ति । ते प्राणा अप्युच्यन्ते, वसा अपि यावन्नो नैयायिको भवन्ति । भगवांश्च खलु उदाह-सन्त्येकतये मनुष्याः भवन्ति, तद्यथाआरण्यकाः, आवसथकाः ग्रामनिमंत्रिका: काचिद् राहसिकाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डः निक्षिप्तो भवति । नो बहुसंयताः, नो बहुप्रतिविरताः, प्राणिभूतजीवसत्वेभ्य आत्मना सत्यानि मृषा एवं विप्रतिवेदयन्ति, अहं न हन्तव्योऽन्ये हन्तव्याः, यावत् कालमासे कालं कृत्वा उपपत्तारो भवन्ति । ततो विप्रयुच्यमानाः भूयः एलमूकत्वाय तमोरूपत्वाय प्रत्यायान्ति। ते प्राणा अप्युच्यन्ते त्रसा यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये प्राणिनो दीर्घायुषः येषु श्रमणोपासकस्य आदानशः आमरणन्ताय दण्डः निक्षिप्तो भवति । ते पूर्वमेव कालं कुर्वन्ति कृत्वा पारलौकिकत्वाय प्रत्यायान्ति । ते प्राणा अप्युच्यन्ते, ते त्रसा अप्युच्यन्ते, ते महाकायास्ते चिरस्थितिकाः, ते दीर्घायुषः, ते बहुतरकाः येषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति । यावन्नो नैयायिको भवति । - भगवांश्च खलु उदाह-सन्त्येकतये प्राणिनः समायुषः, येषु श्रमणोपासकस्य आदानश: आमरणान्ताय यावद् दण्ड: निक्षिप्तो भवति । ते स्वयमेव कालं कुर्वन्ति, कृत्वा पारलौकिकत्वाय प्रत्यायान्ति । ते प्राणा अप्युच्यन्ते, ते त्रसा अप्युच्यन्ते, ते महाकायास्ते समायुषः, ते बहुतरकाः, येषु श्रमणोपासकस्य सुप्रत्याख्यातं भवति, यावन्नो नैयायिको भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy