SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४२६ सूत्रकृतांग सूत्र जाव सव्वपाणेह जाव सव्वसत्तेहि दंडे णिक्खित्ते सव्वपाणभूयजीवसत्तेह खेमंकरे अहमंसि, तत्थ आरेणं जे तसा पाणा जेहि समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउयं विप्पजहंति, विप्पजहित्ता तत्थ आरेण चेव जे तसा पाणा जेहि समणोवासगस्स आयाणसो जाव तेसु पच्छायंति, जोह समणोवा सगस्स सुपच्चवखायं भवइ । ते पाणा वि जाव अयंपि भेदे से जो णेयाउए भवइ ॥ ७६ ॥ संस्कृत छाया भगवांश्च खलु उदाह - सन्त्येकतये श्रमणोपासकाः भवन्ति तैश्चैवमुक्तपूर्वं भवति, न खलु वयं शक्नुमः मुण्डाः भूत्वा अगारादनगारित्वं प्रव्रजितुम्। वयं चतुर्द्दश्यष्टमीपूर्णिमासु प्रतिपूर्णम् पौषधं सम्यक् परिपालयन्तो विहरिष्यामः । स्थूलं प्राणातिपातं प्रत्याख्यास्यामः एवं स्थूलं मृषावाद, थूलमदत्तादानं, स्थूलं मैथुनं, स्थूलं परिग्रहं प्रत्याख्यास्यामः । इच्छापरिमाणं करिष्यामो द्विविधं त्रिविधेन । मा खलुमदर्थं किञ्चित् कुरुत वा कारयत वा तत्राऽपि प्रत्याख्यास्यामः । ते अभुक्त्वा अपीत्वा अस्नात्वा आसन्दीपीठिकातः पर्य्यारुह्य ते तथाकालगताः, किं वक्तव्यं स्यात् ? सम्यक् कालगता इति । वक्तव्यं स्यात् । ते प्राणा अप्युच्यन्ते, ते त्रसा अप्युच्यन्ते, ते महाकायास्ते चिरस्थितिकाः । ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति । तेऽल्पतरकाः प्राणाः येषु श्रमणोपासकस्य अप्रत्याख्यानं भवति । स महतः यथा यूयं वदथ तथैव यावदयमपि भेदः नो नैयायिको भवति । भगवांश्च खलु उदाह-- सन्त्येकतये श्रमणोपासका: भवन्ति तैश्चैवमुक्तपूर्वं भवति - ' न खलु वयं शक्नुमो मुण्डाः भूत्वा आगाराद् यावत् प्रव्रजितम् । न खलु वयं शक्नुमश्चतुर्दश्यष्टमीपूर्णिमासु यावदनुपालयन्ते विहर्तु म् । वयमपश्चिममरणान्त संल्लेखनाजोषणाजुष्टाः भक्तपानं प्रत्याख्याय यावत्कालममवकांक्षमाणाः विहरिष्यामः सर्वं प्राणातिपातं प्रत्याख्यास्यामः यावत् सर्वं परिग्रहं प्रत्याख्यास्यामः, त्रिविधं त्रिविधेन, मा किचिन्मदर्थं याव - दासन्दी पीठिकातः प्रत्यारुह्य एते कालगता: किं वक्तव्यं स्यात् ? सम्यक् कालगता इति वक्तव्यं स्यात् ते प्राणा अप्युच्यन्ते, यावदयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाह- सन्त्येकतये मनुष्याः भवन्ति तद्यथामहेच्छाः महारम्भाः महापरिग्रहाः अधार्मिकाः यावद् दुष्प्रत्यानन्दाः यावत् सर्वेभ्यः परिग्रहेभ्योऽप्रतिविरताः यावज्जीवनम् । येषु श्रमणोपासकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy