SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सप्तम अध्ययन : नालन्दीय ४१५ भूत्वा अगारादनगारित्वं प्रव्रजन्ति । एषां च आमरणान्तो दण्डो निक्षिप्तः । इमे अगारमावसन्ति एतेषामारमणान्तो दण्डो नो निक्षिप्तः । केचिच्छ्रमणाः यावद् वर्षाणि चतुःपञ्च षड् दश वा अल्पतरं वा भूयस्तरं वा विहृत्य देशमगारमावसेयु: ? हन्त ! वसेयुः । तस्य तं गृहस्थं घ्नतः तत्प्रत्याख्यानं भग्नं भवति ? नायमर्थः समर्थः एवमेव श्रमणोपासकस्यापि त्रसेषु प्राणेषु दण्डो निक्षिप्तः, तस्य स्थावरकार्यं घ्नतः तत्प्रत्याख्यानं नो भग्नं भवति, तदेवं जानीत निर्ग्रन्थाः ! एवं ज्ञातव्यम् । भगवांश्च उदाह निर्ग्रन्थाः खलु प्रष्टव्याः, आयुष्मन्तो निर्ग्रन्थाः ! इह खलु गाथापतिर्वा गाथावतिपुत्रो वा तथाप्रकारेषु कुलेषु आगत्यं धर्मश्रवणार्थमुपसंक्रमेयुः ? हन्त ! | उपसंक्रमेयुः । तेषां च तथाप्रकाराणां धर्म आख्यातव्यः ? हन्त ! आख्यातव्यः । किं ते तथाप्रकारं धर्मं श्रुत्वा निशम्य एवं वदेयुः - इदमेव नैर्ग्रन्थ्यं प्रवचनं सत्यमनुत्तरं कैवलिकं परिपूर्ण संशुद्ध नैयायिकं शल्यकर्त्तनं सिद्धिमार्ग मुक्तिमार्ग, निर्वाणमार्ग, निर्वाणमार्ग अवितथमसंदिग्धं सर्वदुःखप्रहाणामार्ग अत्र स्थित्वा जीवाः सिद्धयन्ति ध्यन्ते, मुञ्चन्ति, परिनिर्वान्ति, सर्वदुःखनामन्तं कुर्वन्ति, तदाज्ञयां तथागच्छामस्तथातिष्ठाम स्तथानिषीदामस्तथा त्वचं वर्तयामस्तथा भुजामहे, तयाभाषामहे, तथाऽभ्युतिष्ठामस्तथा उत्थाय उत्तिष्ठामः इति प्राणानां भूतानां जीवानां सत्त्वानां संयमेन संयच्छाम इति वदेयुः ? हन्त वदेयुः । किं ते तथाप्रकाराः कल्प्यन्ते प्रव्राजयितुम् ? हन्त कल्प्यन्ते । किं ते तथाप्रकाराः कल्प्यन्ते मुण्डयितुम् । हन्त कल्प्यन्ते । किं ते तथाप्रकाराः कल्प्यन्ते शिक्षयितुम् ? हन्त कल्प्यन्ते । किं ते तथाप्रकाराः कल्प्यन्ते उपस्थापयितुम् ? हन्त कल्प्यन्ते । तैश्च खलु, तथाप्रकारैः सर्वप्राणिषु यावत् सर्वसत्त्वेषु दण्डो निक्षिप्तः ? हन्त निक्षिप्तः । ते खलु एतद्रूपेण विहारेण विहरन्तो यावद् वर्षाणि चतुःपंचानि षड्दशानि वा अल्पतरं वा भूयस्तरं वा देशं विहृत्य अगारं ब्रजेयुः ? हृन्त ब्रजेयुः । तैश्च सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो निक्षिप्तः ? नायमर्थः समर्थः । तस्य यः स जीवः येन परतः सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो नो निक्षिप्तः तस्य यः स जीवः येन आरात् सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो निक्षिप्तः, तस्य स जीवः येन इदानीं सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो न निक्षिप्तो भवति, परतोऽसंयतः आरात्संयतः, इदानीमसंयतः, असंयतस्य खलु सर्वप्राणेषु यावत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy