SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २७६ सूत्रकृतांग सूत्र स्कस्य अविचार मनोवचनकायवाक्यस्य स्वप्नमप्यपश्यतः पापं कर्म क्रियते । तत् कस्य हेतोः ? आचार्य आह-तत्र खलु भगवता षड्जीवनिकायहेतव: प्रज्ञप्ताः, तद्यथा - पृथिवीकायिकाः यावत् सकायिकाः इत्येतैः षडभिर्जीवनिकायै: आत्मा अप्रतिहत प्रत्याख्यात पापकर्मा नित्यं प्रशठव्यतिपातचित्तदण्ड: तद्यथाप्राणातिपाते यावत् परिग्रहे, क्रोधे यावत् मिथ्यादर्शनशल्ये । आचार्य आह - तत्र खलु भगवता वधकदृष्टान्तः प्रज्ञप्तः, तद्यथानाम वधकः स्याद् गाथापतेर्वा गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षणं लब्ध्वा प्रवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामि इति सम्प्रधारयन् स किंनु खलु नाम वधकः तस्या गाथापतेर्वा गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षणं लब्ध्वा प्रवेक्ष्यामि, क्षणं लब्ध्वा हनिष्यामीति सम्प्रधारयन् दिवा वा रात्रौ वा सुप्तो वा जाग्रद् वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्डो भवति ? एवं व्यागीर्यमाणः समेत्य व्यागृणीयाच्चोदकः, हन्त ! भवति । आचार्य आह—यथा स वधकः तस्य गाथापतेर्वा गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षणं लब्ध्वा प्रवेक्ष्यामि, क्षणं लब्ध्वा हनिष्यामि इति सम्प्रधारयन् दिवा वा रात्रौ वा सुप्तो वा जाग्रद् वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्ड: एवमेव बालोऽपि सर्वेषां प्राणानां यावत् सर्वेषां सत्त्वानां दिवा वा रात्रौ वा सुप्तो वा जाग्रद वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदंड:, तद्यथा - प्राणातिपाते यावन्मिथ्यादर्शनशल्ये, एवं खलु भगवता आख्यातः असंयत: अविरतः अप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः असवृतः एकान्तदंड: एकान्तबालः अविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति पापं च कर्म क्रियते । यथा स वधकः तस्य गाथापतेर्यावत् तस्य राजपुरुषस्य वा प्रत्येकं प्रत्येकं चित्तं समादाय दिवा वा रात्री वा सुप्तो वा जाग्रद वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदंड: भवति, एवमेत्र बालः सर्वेषां प्राणानां यावत् सर्वेषां सत्त्वानाम् प्रत्येकं चित्तसमादाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद् वा अमितभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदंड: भवति ।। सू० ६४ ॥ अन्वयार्थ ( तत्थ चोयए पन्नवर्ग एवं वयासी) इस विषय में प्रश्नकर्ता (प्रेरक) ने प्ररूपक ( उपदेशक ) से इस प्रकार कहा -- ( असंतएणं पावएणं मणेणं असंतियाए पावियाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy