________________
२०८
सूत्रकृतांग सूत्र
स्सन्ति, ते णो बहूणं दंडणाणं जाव णो बहूणं मुडणाणं जाव बहूणं दुक्खदोम्मणस्साणं णो भागिणो भविस्सन्ति, अणादियं च णं अणवयग्गं दोहमज्झं चाउरंतसंसारकंतारं भुज्जो भुज्जो णो अणुपरियट्टिस्सन्ति, ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्सति ॥ सू० ४१||
संस्कृत छाया
ते प्रावादुकाः आदिकराः धर्माणां नानाप्रज्ञाः नानाच्छन्दसो नानाशीलाः नानादृष्टयो नानारुचयः नानारम्भाः नानाऽध्यवसानसंयुक्ताः एकं - महान्तं मण्डलिबन्धं कृत्वा सर्वे एकतस्तिष्ठन्ति । पुरुषश्चैकः साग्निकानामङ्गाराणां पात्र बहुप्रतिपूर्णामयोमयेन सदंशकेन गृहीत्वा तान् सर्वान् प्रावादुकान् आदिकरान् धर्माणां नानाप्रज्ञान् यावद् नानाऽध्यवसानसंयुक्तान् एवमवादीत् - "हो प्रावादुकाः आदिकराः धर्माणां नानाप्रज्ञाः यावन्नानाऽध्यवसानसंयुक्ताः ! इमां तावद् यूयं साग्निकानामंगाराणां पात्रीं बहुप्रतिपूर्णां गृहीत्वा मुहूर्तकं मुहूर्तकं पाणिना धरत, नो संदशकं सांसारिकं कुरुत, अग्निस्तम्भनं कुरुत, नो बहु साधमिकवैयावृत्यं कुरुत, नो बहुपरधार्मिकवैयावृत्यं कुरुत, ऋजुकाः नियागप्रतिपन्नाः अमायां कुर्वाणाः पाणि प्रसारयत । इत्युक्त्वा स पुरुषः तेषां प्रावादुकानां तां साग्निकानामंगाराणां पात्रों बहुप्रतिपूर्णामयोमयेन सन्दंशकेन गृहीत्वा पाणिषु निसृजति ततः खलु ते प्रावादुकाः आदिकरा: धर्माणां नानाप्रज्ञा: यावन्नानाऽध्यवसानसंयुक्ताः पाणि प्रतिसंहरन्ति । ततः खलु स पुरुषः तान् सर्वान् प्रावादुकान् आदिकरान् धर्माणं यावद् नानाऽध्यवसानसंयुक्तान् एवमवादीत्- हं हो प्रावादुकाः आदिकराः धर्माणां नानाप्रज्ञाः यावन्नानाऽध्यवसानसंयुक्ताः ! कस्माद्ययं पाणि प्रतिसंहरथ ? पाणि नो दहेत् इति, दग्धे किं भविष्यति ? दुःखं दुःखमिति मन्यमानाः पाणि प्रतिसंहरथ ! एषा तुला, एतत् प्रमाणं एतत् समवसरणम् प्रत्येकं तुला प्रत्येकं प्रमाणं प्रत्येकं समवसरणम् । तत्र ये ते श्रमणाः माहना: एवमाख्यान्ति यावत्प्ररूपयन्ति — सर्वे प्राणाः यावत् सर्वे सत्त्वाः हन्तव्याः आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्याः क्लेशयितव्याः उपद्रावयितव्याः ते आगामिनिछेदाय ते आगामिनिभेदाय यावद् आगामिनि जातिजरामरणयोनिजन्मसंसारपुनर्भवगर्भवासभवप्रपंचकलंकलीभागिनो भविष्यन्ति । ते बहूनां दण्डनानां बहूनां
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org