SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वितीय अध्ययन : क्रियास्थान १८६ 1 , अल्पग्रन्थाः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । तेषाञ्च भगवता - मियमेतद्रूपा यात्रामात्रावृत्तिरभवत् । तद्यथा - चतुर्थं भक्तं, पष्ठं भक्तं, अष्टमं भक्तं, दशमं भक्त, द्वादशं भक्त, चतुर्दशं भक्त, अर्द्ध मासिकं भक्त, मासिकं भक्तं द्विमासिकं भक्त, त्रैमासिकं भक्तं चातुर्मासिकं भक्त, पाञ्च मासिकं भक्त', षाण्मासिकं, अत उत्तरं च खलु उत्क्षिप्तचरका : निक्षिप्तचरका ः, उत्क्षिप्त निक्षिप्तचरकाः अन्तचरका : प्रान्तचरका ः रूक्षचरकाः समुदानचरकाः, संसृष्टचरकाः, असंसृष्टचरकाः तज्जातसंसृष्टचरका: दृष्टलाभिकाः अदृष्टलाभिकाः, प्रष्टलाभिकाः, अपृष्टलाभिकाः, भिक्षालाभिका:, अभिक्षाभिका:, अज्ञातचरकाः, उपनिहितकाः, संख्यादत्तयः, परिमितपिण्डपातिकाः, शुद्ध ेषणाः, अन्ताहाराः प्रान्ताहाराः अरसाहाराः विरसाहाराः रूक्षाहाराः तुच्छाहाराः अन्तजीविनः प्रान्तजीविनः, आचाम्लिकाः, पुरिमद्धिकाः, निर्विकृतिकाः, अमद्यमांसाशिनः, नो निकामरसभोजिनः, स्थानान्विताः, प्रतिमास्थानान्विताः, उत्कटासनिकाः, नैषद्यकाः, वीरासनिकाः, दण्डायतिकाः, लगण्डश । यिनः, अप्रावृताः, अगतयः, अकण्डूयकाः, अनिष्ठीवनाः, ( एवं यथोपपातिके), धुतकेशश्मश्रु रोमनखाः सर्वगात्र परिकर्मविप्रमुक्तास्तिष्ठन्ति । ते एतेन विहारेण विहरन्तः बहूनि वर्षाणि श्रामण्यपर्यायं पालयन्ति, बहुबहव्यामाबाधायामुत्पन्नयामनुत्पन्नायां वा बहूनि भक्तानि प्रत्याख्यान्ति, प्रत्याख्याय बहूनि भक्तानि अनशनेन छेदयन्ति, अनशनेन छेदयित्वा यदर्थाय क्रियते नग्नभावः मुण्डभावः अस्नानभावः, अदन्तवर्णकः, अछत्रकः, अनुपानत्कः भूमिशय्या, फलकशय्या, काष्ठशय्या केशलोचः, ब्रह्मचर्यवासः परगृहप्रवेशः लब्धापलब्धानि मानापमानानि हीलना: निन्दना: खिसनानि गर्हणाः तर्जनानि ताड़नानि, उच्चावचाः ग्रामकण्टका: द्वाविंशति परीषहोपसर्गाः अध्यासान्ते तमर्थ आराधयन्ति तमर्थमाराध्य चरमोच्छ्वासनिःश्वासैः अनन्तमनुत्तरं निर्व्याघातं निरावरणं कृत्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादयन्ति समुत्पाद्य तत्पश्चात् सिध्यन्ति बध्यन्ते मुञ्चन्ति परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । , एकाचया पुनरेके भयत्रातारो भवन्ति, अपरे पुनः पूर्वकर्मावशेषेण कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवत्वाय उपपत्तारो भवन्ति, तद्यथा - महर्द्धिकेषु महाद्य ुतिकेषु महापराक्रमेषु महायशस्विषु महाबलेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy