________________
६८
संस्कृत छाया
अथापरश्चतुर्थः पुरुषः नियतिवादिक इत्याख्यायते । इह खलु प्राच्यां वा ६ तथैव यावत् सेनापतिपुत्राः । तेषां च खलु एकतयः श्रद्धावान् भवति, कामं तं श्रमणाश्च माहनाश्च सम्प्रधार्षु : गमनाय । यावद् मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति । इह खलु द्वौ पुरुषौ भवतः, एक: क्रियामाख्याति एकः पुरुषो नो क्रियामाख्याति । यश्च पुरुषः क्रियामाख्याति, यश्च पुरुष : नो क्रियामाख्याति द्वावपि तौ पुरुषौ तुल्यौ एकार्थों एककारणमापन्नौ । बालः पुनरेवं विप्रतिवेदयति - कारणमापन्नोऽहमस्मि दुःख्यामि वा शोचामि वा गर्हाम वा तेपामि वा पीड्ये वा परितप्ये वा अहमेवमकार्षम् । परो वा यद् दुःख्यति वा शोचति वा गर्हयते वा तेपति वा पीड्यति वा परितप्यते वा परः एवमकार्षीत् । एवं स बालः स्वकारणं वा परकारणं वा एवं विप्रतिवेदयति कारणमापन्नः । मेधावी पुनरेवं विप्रतिवेदयति कारणमापन्नः अहमस्मि दु:ख्यामि वा शोचामि वा गर्हामि वा तेपामि वा पीड्ये वा परितप्ये वा नाहमेवमकार्षम् । परो वा यद् दुःख्यति यावत् परितप्यते वा न परः एवमकर्षीत् । एवं स मेधावी स्वकारणं वा परकारणं वा एवं विप्रतिवेदयति कारणमापन्नः । अथ ब्रवीमि प्राच्यां वा ६ ये तस-स्थावराः प्राणास्ते एवं संघातमागच्छन्ति, ते एवं विपर्य्यासमाव्रजन्ति, ते एवं विवेकमागच्छन्ति, ते एवं विधानमागच्छन्ति, ते एवं संगति यन्ति उत्प्रेक्षया । नो एवं विप्रतिवेदयन्ति तद्यथा क्रियादिर्वा यावत निरय इति वा अनिरय इति वा । एवं ते विरूपरूपैः कर्मसमारम्भैः विरूपरूपान् कामभोगान् समारभन्ते भोगाय एवमेव ते अनार्याः विप्रतिपन्नाः तत् श्रद्दधानाः यावदिति ते नोऽवचे नो पाराय अन्तरा कामभोगेषु विषण्णाः । चतुर्थः पुरुषः नियतिवादिक इत्याख्यातः ।
इत्येते चत्वारः पुरुषजाताः नानाप्रज्ञाः नानाच्छन्दाः नानाशीलाः नानादृष्टयः नानारुचयः नानारम्भाः नानाऽध्यवसायसंयुक्ताः प्रहीण पूर्वसंयोगाः आर्य्यं मार्गमप्राप्ता इति नोऽर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णाः ।। सू० १२ ॥
सूत्रकृतांग सूत्र
अन्वयार्थ
( अहावरे चउत्थे पुरिसजाए णियइवाइए त्ति आहिज्जइ) तीन पुरुषों का वर्णन करने के पश्चात् अब नियतिवादिक नामक चौथे पुरुष का वर्णन किया जाता है । ( इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता वा ) इस मनुष्य लोक में पूर्व आदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org