________________
प्रथम अध्ययन : पुण्डरीक
कम्मसमारंभेहि विरूवरूवाइं कामभोगाइं समारंभंति भोयणाए। एवमेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते णो हव्वाए, णो पाराए, अंतरा कामभोगेसु विसण्णेत्ति । तच्चे पुरिसजाए ईसरकारणिएत्ति आहिए ॥ सू० ११ ॥
__ संस्कृत छाया अथाऽपरस्तृतीयः पुरुषजातः ईश्वरकारणिक इत्याख्यायते। इह खलु प्राच्यां वा ६ सन्त्येकतये मनुष्या: भवन्ति आनुपूर्व्या लोकमुपपन्नाः, तद्यथाआर्याः एके यावत्तेषां च महान् एको राजा भवति, यावत् सेनापति पुत्राः । तेषां च एकतयः श्रद्धावान् भवति, कामं तं श्रमणाश्च ब्राह्मणाश्च सम्प्रधार्ष गमनाय यावत्, यथा मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति-इह खलु धर्माः पुरुषादिकाः पुरुषोत्तराः पुरुषप्रणीताः पुरुषसम्भूताः पुरुषप्रद्योतिताः पुरुषमभिसमन्वागताः पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम गण्डः स्यात् शरीरेजातः शरीरेसंवृद्धः शरीरेऽभिसमन्वागतः शरीरमेवाभिभूय तिष्ठति एवमेव धर्माः पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम अरतिः स्यात् शरीरे जाता, शरीरे संवृद्धा, शरीरेऽभिसमन्वागता शरीरमेवाभिभूय तिष्ठति, एवमेव धर्माः अपि पुरुषादिका: यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम वल्मीकं स्यात् पृथिवीजातं पृथिवीसंवृद्ध, पृथिवीमभिसमन्वागतं पृथिवीमेवअभिभूय तिष्ठति, एवमेव धर्माः अपि पुरुषादिकाः यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम वृक्षः स्यात् पृथिवीजातः, पृथिवीसंवृद्धः, पृथिवीमभिसमन्वागतः पृथिवीमेव अभिभूय तिष्ठति एवमेव धर्माः अपि पुरुषादिकाः यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम पुष्करिणी स्यात् पृथिवीजाता यावत् पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्माः अपि पुरुषादिकाः यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम उदकपुष्कलं स्यात् उदकजातं यावद् उदकमेव अभिभूय तिष्ठति एवमेव धर्माः अपि पुरुषादिकाः, यावत् पुरुषमेवाभिभूय तिष्ठन्ति । तद्यथा नाम उदकबुबुदः स्यात् उदकजातः यावत् उदकमेव अभिभूय तिष्ठति, एवमेव धर्माः अपि पुरुषादिकाः यावत् पुरुषमेव अभिभूय तिष्ठन्ति।
यदपि चेदं श्रमणानां निर्ग्रन्थानामुद्दिष्टं प्रणीतं व्यंजितं द्वादशांगं गणिपिटकम्, तद्यथा आचारः सूत्रकृतः यावद् दृष्टिवादः, सर्वमेतन्मिश्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org