SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ भगवती वृत् अथ भावदेवविशेषाणां भवनपत्यादीनामल्पबहुत्वप्ररूपणायाह१२/१९८. 'एएसि ण' मित्यादि, 'जहा जीवाभिगमे तिविहे' इत्यादि, इह च 'तिविहे' त्ति त्रिविधजीवाधिकार इत्यर्थः देवपुरुषाणामल्पबहुत्वमुक्तं तथेहापि वाच्यं तच्चैवं - 'सहस्सारे कप्पे देवा असंखेज्जगुणा महासुक्के असंखेज्जगुणा लंतए असंखेज्जगुणा बंभलोए देवा असंखेज्जगुणा माहिदे देवा असंखेज्जगुणा सणकुमारे कप्पे देवा असंखेज्जगुणा ईसाणे देवा असंखेज्जगुणा सोहम्मे देवा संखेज्जगुणा भवणवासिदेवा असंखेज्जगुणा वाणमंतरा देवा असंखेज्जगुण' त्ति || द्वादशशते नवमः ॥ १२-९॥ दशम उद्देशकः नवमोद्देशके देवा उक्तास्ते चात्मन इत्यात्मस्वरूपस्य भेदतो निरूपणाय दशमोद्देकशमाह, तस्य चेदमादिसूत्रम् - १२/२००. 'कइविहा ण' मिति, 'आय' त्ति अतति-सन्ततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा, अथवा अतधातोर्गमनार्थत्वेन ज्ञानार्थत्वादतति - सन्ततमवगच्छति उपयोगलक्षणत्वादित्यात्मा, प्राकृतित्वाच्च सूत्रे स्त्रीलिङ्गनिर्देशः, तस्य चोपयोगलक्षणत्वात्सामान्येनैकविधत्वेऽप्युपाधिभेदादष्टधात्वं, तत्र 'दवियाय' त्ति द्रव्यं-त्रिकालानुगाम्युपसर्जनीकृतकषायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, 'कसायाय' त्ति क्रोधादिकषायविशिष्ट आत्मा कषायात्मा अक्षीणानुपशान्तकषायाणां, ‘जोगाय' त्ति योगा - मनः प्रभृति - व्यापारास्तत्प्रधान आत्मा योगात्मा योगवतामेव, 'उवओगाय' त्ति उपयोगः - साकारानाकारभेदस्तत्प्रधान आत्मा उपयोगात्मा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, 'नाणाय' त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यग्दृष्टेः एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां, वीर्य - उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्तञ्च“जीवानां द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ १ ॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥ २ ॥ ' इति ॥ एवमष्टधाऽऽत्मानं प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तद्दर्शयितुमाह१२ / २०१. 'जस्स ण' मित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषः सप्तभिः सह चिन्त्यते, तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीवत्वमित्यर्थः तस्य कषायात्मा 'स्यादस्ति' कदाचिदस्ति सकषायावस्थायां 'स्यान्नास्ति' १. यद्यपि प्रशमरतौ 'जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मेति पाठः व्याख्याद्वये च तथैव विवरणं तथैवोल्लेखोऽन्यत्रापि, तथापि अभियुक्तैरेष पाठोऽभिमतोऽत्र, न चाशङ्क्यं लेखकदूषणं यतः प्रागत्रैव प्रतिपादने Jain Education International ४३७ परिशिष्ट - ५ : श. १२ : उ. १० : सू. १६८ - २०४ कदाचिन्नास्ति क्षीणोपशान्तकषायावस्थायां यस्य पुनः कषायात्माऽस्त तस्य द्रव्यात्मा द्रव्यात्मत्वं जीवत्वं नियमादस्ति, जीवत्वं विना कषायाणामभावादिति । १२ / २०२ तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात् । एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह १२ / २०३. एवं जहा दवियाये' त्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा, यस्याप्युपयोगात्मा तस्य नियमाद्द्रव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य तदन्यस्य च द्रव्यात्माऽस्त्युपयोगात्मा चोपयोगलक्षणत्वाज्जीवानां, एतदेवाह - 'जस्स दवियाये' त्यादि । तथा 'जस्स दवियाया तस्स नाणीया भयणाए जस्स पुण नाणाया तस्स दवियाया नियमं अस्थि त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृष्टीनां स्यान्नास्ति थ मिथ्यादृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दवियाया तस्स दंसणाया नियमं अत्थि' त्ति यथा सिद्धस्य केवलदर्शनं 'जस्सवि दंसणाया तस्स दवियाया नियमं अत्थि' त्ति यथा चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, तथा 'जस्स दवियाया तस्स चरित्ताया भयणाए' त्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति भजनेति, 'जस्स पुण चरिताया तस्स दवियाया नियमं अस्थि' त्ति चारित्रिणां जीवत्वाव्यभिचारित्वादिति, एवं वीरियातेवि समं' ति यथा द्रव्यात्मनश्चारित्रात्मना सह भजनोक्ता नियमश्चैवं वीर्यात्मनाऽपि सहेति, तथाहि यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीयपेक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति ७ || अथ कषायात्मना सहान्यानि षट् पदानि चिन्त्यन्ते१२/२०४. 'जस्स ण' मित्यादि, यस्य कषायात्मा तस्य योगात्माऽस्त्येव, नहि सकषायोऽयोगी भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा सयोगानां सकषायाणामकषायाणां च भावादिति, 'एवं उवओगाया, एवी' त्यादि, अयमर्थः -यस्य कषायात्मा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात्, यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायात्मा भवति निष्कषायाणां तु नासाविति भजनेति, तथा 'कसायाया य नाणाया य परोप्परंदोवि भइयव्वाओ' त्ति, कथम् ?, यस्य कषायात्मा तस्य सर्वजीवानां द्रव्यात्मेति व्याख्यान्तमन्यथा व्याख्यास्यन् द्रव्यात्मा जीवाजीवानामिति, न चोच्यते सूत्रकृभिः कषायादिभिः सहवृत्तिता नियमः । जीवप्रकरणमनुसरद्भिस्त्यक्ता वाऽजीवा अभियुक्तैः स्युः । For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy