________________
परिशिष्ट-५
अभयदेवसूरि-कृता भगवती-वृत्ति
सर्वज्ञमीश्वरमनन्तमसङ्गमय्यं, सर्वीयमस्मरमनीशमनीहमिद्धम्। सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि॥१॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे। सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाकं विवृणोमि विशेषतः किञ्चित्॥३॥
अथ द्वादशं शतकम्
प्रथम उद्देशकः
व्याख्यातं विविधार्थमकादशं शतम. अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोद्देशकार्थाभिधानार्था गाथेयम्संखे' त्यादि।। शसश्रमणोपासकविषयः प्रथम उद्देशकः। 'जयंति' त्ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः। 'पुढवि' त्ति रत्नप्रभापृथिवीविषयस्तृतीयः। 'पुग्गल' त्ति पुद्गलविषयश्चतुर्थः। 'अइवाए' त्ति प्राणातिपातादिविषयः पञ्चमः। 'राह' त्ति राहुवक्तव्यतार्थः षष्ठः। 'लोगे य' त्ति लोकविषयः सप्तमः । 'नागे य' त्ति सर्पवक्तव्यतार्थोऽष्टमः। 'देव' त्ति देवभेदविषयो नवमः। 'आय' त्ति आत्मभेदनिरूपणार्थो दशम इति।।
तत्र प्रथमोद्देशके किञ्चिल्लिख्यते१२/४-५. 'आसाएमाण' त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः
इक्षुखण्डादेरिव 'विस्साएमाण' त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खजूरादेरिव 'परिभाएमाण' त्ति ददतः 'परिभुजेमाण' त्ति सर्वमुपभुजाना अल्पमप्यपरित्यजन्तः, एतेषां च पदानां वार्त्तमानिकप्रत्यया-न्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमश-नाद्यास्वादितवन्तः सन्तः ‘पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो' त्ति पक्षे-अर्द्धमासि भवं पाक्षिकं 'पौषधम्' अव्यापारपौषधं 'प्रतिजाग्रतः' अनुपालयन्तः
विहरिष्यामः, स्थास्यामः यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिक-प्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थं, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते-इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा-इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपं च, तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन् यदुक्तवांस्तद्दर्शयतेदमुक्तं--'तए णं अम्हे तं विउलं असणपाणखाइमसाइम
अस्साएमाणा' इत्यादि। १२/६०. पुनश्च शङ्ख एव संवेगविशेषवशादाद्य-पौषधविनिवृत्तमनाः
द्वितीयपौषधं चिकीर्षुर्यचिन्तितवांस्तद्दर्शय-तेदमुक्तम्-'नो खलु मे सेयं त' मित्यादि, ‘एगस्स अबिझ्यस्स' त्ति 'एकस्य' बाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य' तथाविधक्रोधादिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कर्तुं कल्पत इत्यवधारणीयं, एतस्य चरितानुवादरूपत्वात् तथा ग्रंथान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रवणाद्दोषाभावात्परस्परेण स्मारणादिविशिष्टगुणसम्भवाच्चेति। 'गमणागमणाए पडिक्कमइ' त्ति ईर्यापथिकी प्रतिक्रामतीत्यर्थः।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International