________________
परिशिष्ट-२ आलोच्य-पाठ तथा वाचनान्तर
आलोच्य-पाठ परियावेणं [आयारो २।२, पृ० १७]
यद्यपि चूर्णी वृत्तीच 'परियावेणं' इति पाठो व्याख्यातोऽस्ति, आदर्शष्वपि एष एव पाठो जाते। तथापि 'माया मे, पिया मे' इत्यादि पदानां अर्थप्रसंगतया 'परियारेणं' इति पाठस्थ परिकल्पना सहज मेव जायते । प्राचीन लिप्या रकारवकारयोः सादश्यात् एतत्
परिवर्तनं नास्वाभाविकमस्ति । मानवा [आयारो ५२६३, पृ० ४३]
वृत्तिकृता 'मानवा' मनुजाः इति विवृतम् । चूणिकृता च नैतत् पदं विवतम् । किन्तु 'एवं थंभे मायाए वि लोभे वि जोण्यन्वं' इति निर्देशः कृतः । तेन 'माणवा' इति पदस्य
स्थाने 'माणओं' इति पाठस्य परिकल्पना जायते । अचिरं [आयारो ८।८।२०, पृ० ७१]
चुर्णी वृत्तौ च 'अचिरं, पदं स्थानार्थे व्याख्यातमस्ति । यद्येतत् स्थानावाची स्यात् तदा 'अहर' मिति पाठः संगच्छते । 'अजिरं प्रांगणम,' इति तस्यार्थो भवेत् । 'अइर' इति अतिरोहितार्थवाची देशीशब्दो पि विद्यते । केनापि कारणेन इकारस्य चकारो जात इति प्रतीयते ।
अथवा चर्णिकारेण वैकल्पिक रूपेण कालाथें अचिरशब्दस्य प्रयोगो निर्दिष्टः, सोपि युक्तः स्यात् । एस खलु भगवया सेज्जाए अक्खाए [आयारचूला ११२६, पृ० ६०]
आयारचूलाया: पाठ-संशोधने षड्आदर्शाः प्रयुक्ताः, चूर्णिवृत्तिश्च । तत्र पञ्चादशेषु उक्तपाठस्य ये पाठ-भेदास्ते तत्रैव पादटिप्पणे प्रदर्शिताः सन्ति । वृत्ती (पत्र ३००) 'एस विलंगयामो सेज्जाए' इति पाठो व्याख्यातोस्ति---"गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-- यथेष साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो' त्ति निर्ग्रन्थ: अकिञ्चन इत्यत: स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदिति ।” अस्माभिः 'घ' प्रत्यनूसारी पाठः स्वीकृतः । चूर्णावपि (प० ३३२) 'एस खलु भगवया' इति पाठो लभ्यते । सेज्जाए अक्खाए'
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org