________________
परिसिट्ठ
१०।२२।१४८ चंवृ पत्र ११० चन्द्रविषयमतिदेशमाह— एवमित्यादि एवं येनाभिलापेन चन्द्रस्य पौर्णमास्य उक्तास्तेनवभिलापेनाऽमावास्याऽपि वक्तव्यास्तद्यथा प्रथमा द्वितीया तृतीया द्वादशी ।
१८ ।१ चं पत्र १५५
वयं पुण मित्यादि । वयं पुनरुत्पन्नकेवलज्ञाना एवं वक्ष्यमाणेन वदामस्तमेव प्रकारमाह । ता इमीसे इत्यादि । ता इति पूर्ववत् अस्या रत्नप्रभायाः पृथ्व्याः बहुसमरमणीयाद्भूमिभागादृर्वं सप्तयोजनशतानि नवत्यधिकानि अबाधया कृत्वा इति गम्यते । अन्तरीकृत्येति भावः अत्रान्तरेऽधस्तनोरूपं ज्योतिश्चक्रं चारं चरति । मंडलगत्या परिभ्रमणं प्रतिपद्यते । तस्या अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागात् ऊर्ध्वमष्टी योजनशतान्यबाधया कृत्वा अत्रान्तरे सूर्यविमानं चारं चरति । तथा अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् उद्धर्वमष्टी योजनशतान्यबाधया कृत्वा अत्रान्तरे सूर्यविमानं चारं चरति । तस्मादेवाधस्तया अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागा
अष्टी योजनशतानि अशीत्यधिकानि अबाधया कृत्वा अत्रान्तरे सूर्यविमानं चारं चरति । तस्मादेवाधस्तनात् तारारूपाज्जोतिश्चक्रादृद्धर्वं नवति योजनान्यूर्ध्व मबाधया कृत्वा अत्रान्तरे चन्द्रविमानं चारं चरति । दशोत्तरयोजनशतमबाधया कृत्वा अत्रान्तरे चंद्रविमानं चारं चरति ।
Jain Education International
७०ह
सूवृ पत्र १८४ चन्द्रविषयं प्रश्नसूत्रमाह-'ता एएसि ण' मित्यादि, तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथमाममावस्यां चन्द्रः कस्मिन्देशे स्थितः परिसमापयति ? भगवानाह 'ता जंसिण' मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रश्चरमां द्वाषष्टि-द्वाषष्टितमाममावस्यां परिसमापयति, ततोऽमावास्यास्थानाद् - अमावास्यापरिसमाप्ति स्थानात् परतो मण्डलं चतुर्विंशत्याधिकेन शतेन छित्त्वा तद्गतान् द्वात्रिंशतं भागान् उपादायात्र प्रदेशे स चन्द्रः प्रथमाममावास्यां परिसमापयति 'एव' मित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन चन्द्रस्य पौर्णमास्यो भणितास्तेनवाभिलापेनामावास्या अपि भणितव्याः । तद्यथा— द्वितीया तृतीया द्वादशी च । सूवृ पत्र २६१
'वयं पुण एवं वदामो' इत्यादि, वयं पुनरुत्पन्नकेवलवेदसः एवं वक्ष्यमाणेन प्रकारेण वदामस्तमेव प्रकारमाह- 'ता इमीसे' इत्यादि, ता इति पूर्ववत्, अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं सप्तयोजनशतानि नवतानि नवत्यधिकानि उत्प्लुत्य गत्वा अत्रान्तरे अधस्तनं ताराविमानं चारं चरति --- मण्डल गत्या परिभ्रमणं प्रतिपद्यते ।
For Private & Personal Use Only
www.jainelibrary.org