________________
१७० ]
[ सूर्यप्रज्ञप्तिसूत्र .
२ उ. मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरइ।' ३ उ. साई णक्खत्ते सव्वुवरिल्लं चारं चरइ।
४ उ. भरणी णक्खत्ते सव्वहेछिल्लं चार चरइ। चंद-सूर-गह-णक्खत्तविमाणाणं संठाणाई ९४. प. ता चंदविमाणे णं किंसंठिए पण्णत्ते ? उ. ता अद्धकविट्ठग-संठाणसंठिए सव्वफालियामए अब्भुगयमूसियपहसिए विविह-मणि-रयण
भत्तिचित्ते, वाउ य-विजय-वेजयंतीपडागा छत्ताइछत्तकलिए, तुंगे गगणतलमणुलिहंतसिहरे, जालंतररयण-पंजरुम्मीलियव्व मणिकणगथूभियागे, वियसिय-सयवत्तपुंडरीय-तिलयरयणद्धचंदचित्ते, अंतो बहिं च सण्हे, तवणिजबालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिजे अभिरूवे पडिरूवे। एवं सूरविमाणे, गहविमाणे, नक्खत्तविमाणे ताराविमाणे।'
'सर्वबाह्य-सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति'। 'यद्यपि पंचदशमण्डलाबदिश्चारीणि मृगशिरःप्रभृतीनि षड् नक्षत्राणि पूर्वाषाढोत्तराषाढयोश्चतुर्णातारकाणां मध्ये द्वे द्वे च तारे उक्तानि, तथाप्येतदपरबहिश्चारिनक्षत्रापेक्षया लवणदिशि स्थितं सच्चारं चरतीति सर्वबहिश्चारीत्युक्तम्।' क. 'दशोत्तरशतयोजनरूपे ज्योतिश्चक्रबाहल्ये यो नक्षत्राणां क्षेत्रविभागश्चतुर्योजनप्रमाणस्तदपेक्षयोक्तनक्षत्रयोः . क्रमेणाधस्तनोपरितनभागो ज्ञेयो।' इस टिप्पण में उद्धृत उद्धरण जम्बू. वक्ख.७, सू. १६५ टीका के हैं। ख.जम्बूद्वीपप्रज्ञप्ति के सूत्र १६५ के समान यह सूर्यप्रज्ञप्ति का सूत्र भी है। गाहाओअद्धकविट्ठागारा उदयत्थमणमि कहं न दीसंति, ससि-सूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ? उत्ताणद्धकविट्ठागारं, पीढं तदुवरिं च पासाओ। वट्टालेखेण तओ, समवटें दूरभावाओ॥ जिनभद्रगणिक्षमाश्रमणेन विशेषणावत्यामाक्षपपुरस्सरमुक्तम् ॥ 'यदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा, यदि वा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्धक पित्थफलाकारं नोपलभ्यन्ते ?' कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते अर्धकपित्थस्य उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात् उच्यते। इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्य प्रासादः स च प्रासादस्तथा कथंचनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुलाकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते, ततो न कश्चिद्दोषः॥
- सूर्य. टीका, जंबु. वक्ख. ७, सु. १२५
४.