________________
दशम प्राभृत- सत्तरहवा प्राभृतप्राभृत ]
२०. अभीयिणा पुप्फेहिं भोच्चा कज्जं साधेंति, २१. सवणेणं खीरेणं भोच्चा कज्जं साधेंति, २२. धणिट्ठाहिं जूसेणं भोच्या कज्जं साधेंति,
२३. सतभिसयाए तुवरीओ भोच्चा कज्जं साधेंति, २४. पुव्वाहिं पुट्ठवयाहिं कारिल्लएहिं भोच्या कज्जं साधेंति,
२५. उत्तराहिं पुट्ठवयाहिं वराहमंसं भोच्चा कज्जं साधेंति,
२६. रेवतीहिं जलयर-मंसं भोच्चा कज्जं साधेंति,
२७. अस्सिणीहिं तितिर-मंसं वट्टकमंसं वा भोच्चा कज्जं साधेंति, २८. भरणीहिं तलं (तिल) तंदुलकं भोच्या कज्जं साधेंति ।
१. कुल्माषांस्तिलतण्डुलानपि तथा माषांश्च गव्यं दधि, त्वाज्यं दुग्धमथैणमांसमपरं तस्यैव रक्तं तथा । तद्वत्पायसमेव चाषपललं मार्गं च शाशं तथा, षष्टिवयं च प्रियंग्वपूपमथवा चित्राण्डजान् सत्फलम् ॥ ८४ ॥ कर्म सारिकगोधिकं च पललं शल्यं हविष्यं हयाघृक्षे स्यान्कृसरानमुद्गमपि वा पिष्टं यवानां तथा । मत्स्यान्नं खलु चित्रितान्नमथवा दध्यन्नमेवं क्रमाद्भक्ष्याभक्ष्यमिदं विचार्य मतिमान् भक्षेत्तथाऽऽलोकयेत् ॥ ८५ ॥
[ १२१
-
मुहूर्तचिन्तामणि यात्राप्रकरण वस्तुतः इदं सप्तदशं प्राभृतप्राभृतं न भगवता प्रतिपादितं किन्तु केनाऽप्यत्र प्रक्षिप्तमिति प्रतिभाति, नेयं भाषाशैली भगवतो लक्ष्यते, यतोऽत्र सूत्रे कुत्रचित् 'कत्तियाहिं रोहिणीहिं, अद्धाहिं ' इत्यादि तृतीयाबहुवचनं लभ्यते कुत्रचिच्च 'पुणव्वसुणा, पुस्सेणं, अद्दाए' इत्यादि तृतीयैकवचनं लभ्यते । अन्यच भोज्यवस्तुविषये कुत्रचित्तृतीया कुत्रचिद् द्वितीया च । यथा - 'दहिणा भोच्चा, बणीयेण भोच्चा, खीरेण भोच्चा' इति तृतीया, कुत्रविच्च यत्र मांसविषयकथनं तत्र द्वितीया, यथा- 'वसभमंसं भोच्चा, मिगमंसं भोच्चा, दीवगमंसं भोच्चा' इत्यादि, एवमवयवस्थितजल्पनेन ज्ञायते नेदं भगवता प्रसपितमिति । अन्यच्च कतिपयस्थलेषु स्थलचरजलचर - खेचर प्राणिनां मांसभक्षणं कार्यसिद्धौ कारणत्वेन प्रतिपादितं तत्तु नितान्तमसङ्गतमेव, यतः षटकायप्रतिपालकस्य षटकायरक्षणोपदेशतत्परस्य च भगवतो मुखान्नैव मांसभसक्षणविधिर्भवितुमर्हति शास्त्रेषु कुत्रापि नैतादृशी वाणी भगवतः समुपलभ्यते ऽतो निश्चीयते-नेदं भगवदुपदेशकविषयकमिति । अस्तु, अन्यदपि संयुक्तिकं कारणं श्रूयताम् - शास्त्रेषु सर्वत्र नक्षत्राणां गणना अभिजिन्नक्षत्रादारभ्यैव कृता युगस्याद्यदिवसेऽभिजित एवं सद्भवात् । अत्रैव शास्त्रे पूर्व दशमप्राभृतस्य प्रथमे प्राभृतप्राभृते आदावेव सूत्रमिदम् -
'ता कहं ते जोगेति वत्थुस्स आवलियाणिवाए आहिएति वएज्जा, तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता सव्वेवि णक्खत्ता, कत्तियादिया भरणीपज्जवसाणा एगे एवमाहंसु ॥ १ ॥ इयमन्यतीर्थिकानां प्रथमा प्रतिपत्तिः, एते कृत्तिकादीनि भरणीपर्यवसानानि नक्षत्राणि मन्यन्ते, एवमन्यतीर्थिकानां पञ्च प्रतिपत्तयः सन्ति । तत्र द्वितीयाः - 'मघादिकानि अश्लेषापर्यवसानानि सर्वाणि नक्षत्राणि इति '
२. तृतीया - धनिष्ठादीनि श्रवणपर्यवसानानि इति ३. चतुर्था अश्विन्यादीनि रेवतीपर्यवसानानि सर्वाणि नक्षत्राणि ४, एके भरण्यादिकानि अश्विनी पर्यवसानानि इति कथयन्ति । ५ । एता पञ्चापि प्रतिपत्तयो मिथ्यारूपा इति कथयित्वा भगवान् स्वमतं प्रदर्शयति -