SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ नमोऽस्तु श्रमणाय भगवते महावीराय ॥ खरतरगच्छ-सूरिपरंपरा-प्रशस्तिः ॥ श्रियेऽस्तु वीरस्त्रिशलाङ्गजातः सेवागतानेकसुरेन्द्रजातः। ___ दुष्टाष्टकर्मक्षयबद्धकक्षस्तिरस्कृताशेषविपक्षलक्षः॥१॥ यदीयसन्तानभवा मुनीश्वराः कुर्वन्ति धर्म विमलं कलावपि । अद्यापि कालेज स पञ्चमेऽपि, श्रिये सुधर्मा गणभृद्वरोऽयम् ॥ २ ॥ येनाष्टौ नवबालिका नवनवस्नेहानुगा बन्धुराः सौवो नवकोटयो दशगुणास्त्यक्ता नवाधिक्यकाः । येन स्वेन कुटुम्बकेन सहितेनाग्राहि दीक्षा गुरोः सोऽयं केवलिपुङ्गवोऽप्यृषभभूर्जम्बूमुनिः पातु वः ॥ ३॥ चौरोऽपि प्रथितो विहाय सकलचौर्याद्यवयं सुधी रात्मीय परिगी कोणिकनृपाध्यक्षं तदागश्च यः। चौराणां शतपञ्चकेन कलितः प्रव्रज्य सर्वश्रुत ज्ञान्यासीत्प्रभवोऽथ सूरिमुकुटः सोऽस्तु श्रिये विद्विभुः॥४॥ श्रुत्वा साधुमुखाद्विनिर्गतवचोऽहो कष्टमित्यादिकं जैनीमूर्तिनिरीक्षणेन तरसा त्यक्त्वाध्वरं बन्धुरम् । संसाराद्विरतो व्रतं समाधिया चादाय सूरिपदं लेभे सार्थश्रुतज्ञतास्पदमसौ शय्यंभवः सोऽवतात् ॥५॥ यः स्वल्पायुर्ज्ञात्वा निजसुतमनकस्य चात्तचरणस्य । दशवैकालिकमकरोत् स्वल्पदिनानल्पसुखहेतुः ॥ ६॥ तं शय्यंभवसूरि प्रणमत भक्त्या गुणाजकासारम् । जिनशासनशृङ्गारं योगिमनःसरसिजे हंसम् ॥७॥ तत्पट्टभूषणमणिर्जयतु यशोभद्रसूरिधौरेयः। गुरुभक्तिशालिहृदयः सुखकारः संयमाधारः॥८॥ संभूतिविजयसूरिः सकलश्रुतकेवली जगद्विदितः। _ निखिलश्रीसूरिशिरस्तिलकसमो जयतु योगीशः॥९॥ प्राचीनगोत्रतिलको जिनशासनेऽस्मिन् मार्तण्डमण्डलवदद्भुतभास्करोऽयम् । दीप्तप्रकाशचरमश्रुतकेवलीशो जेजीयते य इह सूरिंगणावतंसः ॥१०॥ संघोपरोधवशतोऽखिलदुष्टकष्टविनापहारमुपसर्गहरं चकार । नियुक्तिकनिखिलसूत्रकदम्मकस्य या सोऽस्तु दुर्गतिहरो गुरुभद्रबाहुः ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy