SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५४ । खरतरगच्छ पट्टावली-३ ॥ श्रीमालगोत्रे वणिगस्ति । तस्य पंच पुत्राः । तेषां मध्यात् तृतीय पुत्रः तं शिष्यं कुरु । तस्याहं वरं दास्यामि । तेन तथा कृतं । तस्य नाम श्री जिनप्रभसूरिः । तस्यावदाता बहवः । यथागयणथकी जिनि कुलह नांषि ओघइ उत्तारी, किद्ध महिष मुषवाद नयर पिक्खइ नव वारी। ढिलीपति सुरताण पूठि तसु वृक्ष चलाविय, रयणि सेत्तुंजि सिहरि दुद्ध जलहर वरसाविय । दोरडइ मुद्र कीधी प्रकट जिन प्रतिमा बुल्ली वयणि, जिनप्रभसूरि सम कवण भरतखंड मंडिण रयणि ॥१॥ इत्यादि प्रभावकः तपागच्छस्य धर्मध्वजदंडीदानं सप्तशतमंत्रप्रदान काचलीयामंत्रप्रदानं कृतं। तपगच्छविस्तारो यतो जातः । श्रीअल्लावदीन पातिसाहि प्रतिबोधकः अमावस्याः पूर्णिमासी कृता; येन द्वादशयोजनं यावत् चंद्रोद्योतो जातः। पद्मावत्या कर्णकुंडलोऽर्पितो यस्य । इत्यादि बहवोऽवदाता इति ।। ___ततः श्रीजिनप्रबोधसूरिपट्टे संवत् १३४१ वैशाखसुदि ३ दिने जावालपुरे पट्टाभिषेकः श्रीजिनचंद्रसूरिः। छाजहडगोत्रीयः। १३७७ ज्येष्ठवदि ११ दिने अणहिल्लपत्तने पट्टाभिषेकः । श्रीश@जये खरतरवसतिप्रतिष्ठाकारकः । श्रीजेसलमेरौ श्रीपार्श्वनाथबिंब प्रतिष्ठितं । येन श्रीजावालपुरे श्रीपार्श्वनाथप्रतिमा प्रतिष्ठिता। यस्य परिकरे द्वादश शतानि साधुसाध्वीनां जातानि। श्रीमंगलवरनगरे समुद्रवासिनो देवा बहवो मंत्रबलेन वशीकृताः। देराउरे स्तूपनिवेसो जातो तस्य। तथाद्यापि प्रत्यक्षं स्मरणेन मेघं समानयति, जलपानं कारयति तृषातुराणां। अचिंत्यमहिमा श्रीखरतरगच्छवासिनां साधुसाध्वीश्रावकश्राविकाणां, तथाऽन्येषामपि नामग्राहिणां सांनिध्यं करोति, वांछितं पूरयति यो गुरुः । ततः श्रीजिनकुशलसूरिपट्टे संवत् १३९०, ज्येष्ठसुदि ३ दिने सिंधुपुरे देराउरपुरे पट्टाभिषेकः। श्रीजिनपद्मसूरिः। तस्य वारके वेगडनिर्गतः। पट्टत्रिक छाजहडगोत्राणांजातं परमस्माकमेवगोत्रीयाणां दास्यामः प, नान्येषां तेन सीगडेन भ्राता वेगडः स्थापितः। श्रीसत्यपुरे बाराही साधिता। उधरणकेटके खरतरश्रावका जाताः। तत्पट्टे श्रीजिनलब्धिसूरिः । संवत् १४०० आसाढ सुदि १ पट्टाभिषेकः । कूर्चालसरस्वती । तस्य वारके अजयमेरौ 'हिन्दुक राजा' बीसलदेराजा । खरतराणां चतुरसीति शिष्याः व्याकरणपाठकाः । सप्तशत पौषधाः। घंटाशब्देन आलोचनं क्षामणं कुर्वति ते । तदानवदीन पातिसाहभयेन पद्मावती प्रहिता। गुरुभिरुक्तं च शुद्धिं कृत्वा एहि । म्लेच्छर्बद्धा देवी । अकस्मादागतो बहुसैन्यः। सर्वे प्रणष्टाः। देव्योक्तं अहं बद्धा म्लेच्छदेवैः। अथाहं न स्मरतव्या नागच्छामि । म्लेच्छवाहुल्यं जातं । गुरुभिः पंचशिष्याः, महधिकाश्च पंचश्राद्धा निर्वासिताः निखातद्वारे । संवत् १४०६ महासुदि १० दिने पट्टाभिषेकः श्रीजेसलमेरुदुर्गे तत्पट्टे श्रीजिनचंद्रसूरिः । उद्यतविहारी परमसंवेगी। संवत् १४१५ आसाढसुदि १३ श्रीस्तंभतीर्थे पट्टाभिषेकः, तत्पट्टे श्रीजिनोदयसूरिः। तस्येदं माहात्म्यं जातं । येषां शिरसि बालत्वे वासक्षेपः कृतस्ते सर्वे संघपतयो जाताः। शिष्याणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy