________________
।। खरतरगच्छ पट्टावली-३॥ शक्नुवन्ति । श्रीपूज्यैरुक्तं-जीवनसौ कथं भूमौ प्रक्षिप्यते । ततो रात्रौ परकायप्रवेशिनीविद्या प्रारब्धा । एको व्यंतरश्वाकर्पितः । बालकशरीरे प्रक्षिप्तः। व्यंतरेणोक्तं-कदाहं छुटिष्यामि ? गुरुभिरुक्तं-म्लेच्छानामग्रे 'एष बालो यदा महिषीमांसं अत्स्यति तदा मरिष्यति' इति कथयित्वा जीवितो बालः । मासत्रिके मांस भुक्त्वा पतितः। एकदावसरे अजमेरौ प्रतिक्रमणावसरे विद्युद् अतीव प्रकाशते उजेहीभवति । ततः श्रीगुरुभिः प्रासुकजलेनाभिमंत्र्य स्तंभिता। कृते प्रतिक्रमणे मुक्तेति । श्रीअणहिलपत्तने भांडशालिक आभू सुश्रावकोऽभूत् । तस्मिन्नवसरे श्रीपूज्या मूलत्राणे नगरे गताः। श्रावकैर्महान् प्रवेशोत्सवो विहितः । तत्र पत्तने वास्तव्यान्यपक्षीय अंबडनामा श्रावकोऽभूत् । तेनोक्तमत्रैवंविधः महाप्रवेशोत्सवः क्रियते । अस्मत्पत्तने एवंविधः क्रियते तदा ज्ञायते भवतां शक्तिः। ततः श्रीगुरुभिरुक्तं-अस्माकं तत्राप्येवंविधः प्रवेशोत्सवो भविष्यति परं त्वं तत्र प्रवेशोत्सवे जायमाने निर्धनो मस्तके पोट्टालिकां कूटिका हस्ते च बिभ्रत् मिलिष्यसि । तत्तथैव जातं । गुरवः पत्तने समेताः। स गुरूणामुपरि द्वेषं वहति । कपटश्रावको जातः । ततः पारणकदिने अतिथिसंविभागं कृत्वा शर्करापानीयमध्ये विषप्रयोगं चकार । तथा गुरुर्विषादितो जातः । ततः आभूसुश्रावकेण योजनगामिनीमुष्ट्रिकां प्रेषयित्वा देवतादत्तो रसकूपकः प्रल्हादनपुरादानीतः । तेनामृतरसेन निर्विषा बभुवु गुरवः । ततः सोऽम्बडः कर्मवशान्मृत्वा दुष्टव्यंतरो जातः । गुरूणां पार्वतो भ्रमति छलनाय । अन्यदा रात्रौ पट्टिकोपरि सुप्तानां रजोहरणं पपात । तत्पातेन गुरवः ससंभ्रमा जाताः। छलिता व्यंतरेण । ततः प्रभातसमये आभूश्रावकप्रमुखः श्रीसंघो मिलितः। नानाप्रकारो उपचारो विहितः परं तथापि स दुष्टव्यंतरो न मुंचति गुरुं । ततः श्रावकआभूपुत्री व्यंतरं प्रोचे अस्मत्कुटुंबे अष्टादश मनुष्याः संति मदीयाः, तान् सर्वान् गृहाण, परमेनं गुरुं मुंच । व्यतरेणाचिंति किमेष सत्यं ददाति नवेति व्याकुलोऽभूत् । गुरवः सावधाना जाताः । शिखातो गृहितो व्यंतरः। मोचितोऽत्याग्रहेणाभूसुश्रावकेणेति । ततः श्रीजिनदत्तसूरयो वर्ष ८४ आयुः प्रतिपाल्य अजयमेरौ स्वर्ग गताः। तत्र स्तूपं संघेन कारितं । ___संवत १२०५ वैशाखसुदि ६ दिने श्रीविक्रमपुरे श्रीजिनदत्तसूरीणां स्वहस्तेन पदे स्थापितः नवम वर्षे गृहीतदीक्षः श्रीजिनचंद्रसूरिः। तस्य शिरसि मणिरभूत् । स तु एकदा वीरनाथयोगोंद्रेण दृष्टः । तेन ज्ञातं एतस्य पंचवर्षायुरस्ति । ततो गुरवो ढिल्यां गताः । तत्र योगिनीभिरुक्तं-अनेनास्मदाज्ञालोपिता अथैन छलयामः । ततो योगिन्यो रात्रौ समागताः धर्मध्वजमाहात्म्येन छलं तासां न लगति । तदा मूषकरूपेणापहतो धर्मध्वजः। श्रीगुरवो जजागरुः । मार्जारीरूपेण धाविताः । छलिता गुरवस्ताभिः । प्रभातेऽनशनं कृत्वा कोचरश्रावकस्याग्रे चोक्तं गुरुभिः-मम मस्तके मणिरस्ति स दागसमये श्मशाने पार्थे दुग्धपात्रं स्थापनीयं तस्य मध्ये पतिष्यति । स गृहे पूजनीयोऽक्षयं धनं भविष्यति । ततः श्रीपूज्ये परलोके प्राप्ते कोचरस्य सा वार्ता विस्मृता । परं योगिना दुग्धपात्रं मंडितं दाघकाले । मणि लात्वा गतो योगी। दृष्टो वणिजा कोचरेण कलहः कृतः। परं न ददाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org