________________
।। खरतरगच्छ पट्टावली-३॥ ताभ्यामुक्तं कथं नेति । गुरुभिः सातिशयैर्वभाषे युवयोः शिरसि मृतमत्स्योऽस्ति । ताभ्यां तथैव दृष्टः । प्रतिबुद्धौ द्वाभ्यामपि दीक्षा गृहीता। पठितानि सम्यग् शास्त्राणि । गुरुभिः पट्टे स्थापितः जातः श्रीजिनेश्वरसूरिः॥ अपरो भ्राता आचार्यों बुद्धिसागरः। अन्यदा गुर्जरधरित्र्यां श्रीअनहिल्लपाटके श्रीसूरयः समेताः । तत्र दुर्लभो राजा अतीव-विज्ञः पदर्शन पूजकः । तत्र चैत्यवासिनोऽतीवप्रमत्ताः साधुजनद्वेषिणः सन्ति । श्रीजिनेश्वरसूरिः, भ्राता बुद्धिसागराचार्यः स्वमातुलगृहमागतः । चैत्यवासिनां निर्णीतिर्जाता । प्रभाते राज्ञः सभायां चैत्यवासिनः समेताः। श्रीगुरवोऽपि राज्ञा पृष्टा युष्माकं मध्ये के सदाचाराः। गुरुभिरुक्तं ये सिद्धान्तप्रोक्तमार्गानुयायिनस्ते सत्याः। राज्ञा निजकन्या भाण्डागारे मुक्ता, हे कन्ये त्वं पुस्तकं यथारुचि गृहीत्वा समानय । सा गता प्रथमत एव दशवैकालिकसूत्रं समानीतं सभा समक्षं, चैत्यवासिनः पुस्तकं गृहीत्वा वाचयन्ति स्म । गुरुभिरर्थोऽभिहितः । साध्वाचारे गोचर्याधिकारे पत्र चतुष्कमाच्छादितं । गुरुभिरुक्तं-राज्यपर्षदि स्तैन्य जायते । पत्राणि निर्वासितानि । एतेऽसत्यवादिनस्तस्कराः। यूयं खरतराः, इति सत्यवादिनः । गुरुभिरुक्तमेते कोमलाः इति । ततः श्रीगुरुभिः खरतरविरुदं प्राप्तं ।। दससय चिहु वासेहि नयरपाटण अणहिलपुरि । हुओ वाद सुविहित चइवासीसु बहुपरि । दुलभनवइ सभासुमुपि जिणि हेलइ वजित्तउ । चित्तवास उत्थपिअ देस गूरजरहिव दित्तउ ।
सुविहितगच्छखरतर विरुद दुलभनरवइ तिहां दियउ ।
श्रीवर्धमान पदृइ तिलउ सूरि जिणेसर गहगाउ ॥ गच्छस्थापना जाता । बहवः श्रावका बभूवुः।
२. तेषां पट्टे श्रीजिनचन्द्रसूरयः। मोजदीन पातिसाहस्य पिंजारकगृहस्थितस्य उक्तमभूत्, यथायं ढिल्यां मालवोपि पातिसाहो भविष्यति । ततः क्रमेण कस्यापि म्लेच्छस्य षवासो जातः । एकदा पातिसाहेनोक्तं म्लेच्छस्य एष सेवको सवालोऽस्माकं देहि । तेन दत्तः। शतवर्षीयो मृतावस्थाप्राप्तः पातिसाहः क्षणं यावत् सचेतः क्षणं अचेतो भवति । तदा पातिसाहपुत्रो मोजदीनः पिंजारकपुत्रो पि षवासो नाम्ना मोजदीनः। षवासः तिष्ठन् पार्थे परिचर्या करोति, तावत् प्रधान रुपैरुक्तं स्वामिन् पुत्रस्य राज्यं देहि । तेनोक्तमवसरे दास्यामि । अन्यदा मध्यरात्रौ श्वासश्चटितः, ज्ञातं म्रियते, आकारितः पुत्रो मोजदीनः । पुत्रस्य निद्रा समेता । खावासेन ज्ञातं परिचर्यार्थ मामाकारयति । आगतः षवासः पुत्रभ्रान्त्या शिरः टोपी तस्य शिरसि न्यस्ता, पङ्गः करे दत्तः। स्वयं प्रणामः कृतः। मिलिताः प्रधानाः प्रोचुः-स्वामिन् किंकृतं ? नामभ्रांत्या पवासस्य राज्यं दत्तं । पातिसाहेनोक्तं-मया यत् दत्तं तत दत्तमेवेति । सत्पुरुषवाक्यं नान्यथा स्यात् । पुत्रः प्रणष्टः खवासस्य राज्यं जातं मोजदीनपातिसाहिरिति ।
अथ श्री जिनचन्द्रसूरिभिर्जातं स एव पिंजारकपुत्रोऽस्मत्कथितः पातिसाहिर्जातः । ढिलीमण्डले साधूनां विहारो नास्ति । अनेक मुल्ला-सेख-काजी-प्रमुखैषिभिर्निवारितो । वयं यामो येन साधूनां विहारो भवेदिति विमृश्य तत्रागता गुरवः । श्रीमालधनपालगृहस्थिताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org