________________
४२
।। खरतरगच्छ पट्टावली-२॥ श्री जेसलमेरदुर्गे आचार्यपदं प्राप्त, तदुच्छवश्च लक्षव्ययेन भूपाल मूलसिंघेन नंदिमहोत्सवो कृतः। अथान्यदा रतलामपुरे चतुर्मासी कृता, तत्र जिनबिंबस्य प्रतिष्ठामकरोत् । ततः श्री शत्रुजयादि यात्रां कृत्वानुक्रमेण विक्रमपुरं अगमत् । अथान्यदा श्री आचार्यस्य मुखात् धर्म श्रुत्वा विक्रमपुरस्य राजा परमश्रावको जातः । एवंविधा जिनचंद्रसूरयः जेसलमेरदुर्गे सं० १८७५ कार्तिक मुदि पूर्णिमायां स्वर्ग गताः॥६९॥
७०. तत्पट्टे सप्ततितमः श्री जिनउदयसूरिः । स च सौवमपालग्रामवास्तव्य वोत्थरागोत्रीय साह जयराजपिता, जयदेवी माता तयोः पुत्रः। सं० १८३२ माघ सु० सप्तम्यां जन्म । सं० १८४७ मृगसिरसुदि तृतीयायां भट्टारक श्री जिनचंद्रसूरिणा दीक्षा दत्ता । सं० १८७५ मृगसिरसुदि पंचभ्यां जेसलमेरदुर्गे आचार्यपदं प्राप्तं, तत्र तत्पट्टमहोत्सवः संघवी तिलोकचंद्रेश सहस्र द्रव्यव्ययेन नंदिमहोत्सवः कृतः। अथान्यदा मंदसोर पुरेऽगमत् , तत्र सं० १८९३ वैशाखसुदि तृतीयायां ऋषभजिनस्य बिंब प्रतिष्ठितं । पुनः विक्रमपुरे सं० १८९७ वैशाखसुदिपष्टयां श्री शान्तिनाथविंबं प्रतिष्ठित । सं० १८९७ वैशाखसुदि त्रयोदश्यां दिने विक्रमाख्ये पुरे स्वर्गमगमत् ॥ ७० ॥
७१. तत्प? एकसप्ततितमः श्रीजिनहेमसूरिः ।। गो....त्रीयः साणियाला ग्राम वास्तव्यः साह पृथ्वीराज भा० प्रभादेवी तयोः पुत्रः, सं० १८६६ वर्षे आसाढशुक्ल प्रतिपदायां पुष्यनक्षत्रे जन्म, हुकमचंद मूलनाम । सं० १८८३ वर्षे वैशाखसिते तृतीयायां श्रीजिनउदयसूरिणा दीक्षीतः। दीर्घदर्शी कस्तुरचंद्रजीगणिना बाल्यावस्थायां शास्त्राणि पाठितानि । सं० १८९७ वर्षे ज्येष्ठशुभ्रदले पंचम्यां तिथौ श्री विक्रमपुरे भट्टारकपदमहोत्सवः डागा सुरतरामजीकेन कृतः। ततो भट्टारक श्री जिनहेमसूरिभिः इंदोराख्यपुरे ऋषभेश्वरबिंबप्रतिष्ठा कृता, तत्र श्री संवस्य द्विधाभावं निवार्यानंतरं मनोदग्रामे श्री पार्श्वप्रभोविवप्रतिष्टा विहिता । पश्चात् श्री शगुंजयादि तीर्थयात्रां कृत्वा सर्वदेशेषु विहृत्य विक्रमपुरे प्राप्तः। तस्मिन् चिरं पदं भुक्तवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org