SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ।। खरतरगच्छ पट्टावली-२॥ प्रमुदितेन कर्मचंद्रमत्रिणा महोत्सवो विहितः। तत्र नव ग्रामाः ९, नव हस्तिनः ९, पंचाशत् (५००) घोटकाः याचकेभ्यो दत्ता एवंकारसपादकोटि द्रव्यं दत्तं । पुनमंत्रिणाऽनेकदा श्री खरतरगच्छोद्दीपनं विहितं । तथा पुनः सं० १६५२ श्री गुरुभिः पंचनद्यः साधिताः, तत्र पीरपंचक, मानभद्र यक्ष, खंजक्षेत्रपालादयो देवाः साधिताः। तथा पुनरेकदा सं० १६६९ श्री सलेमपतिसाहिना गानादिकलानिपुणत्वेन स्वपार्श्वे रक्षितस्य तपागच्छीययतेर्निजस्त्रिया सह एकांतस्नेहवा करणाद्यनाचारं विलोक्य कुपितेन सता स्वसेवकेभ्य इत्थमाज्ञा दत्ता-" मम सर्वदेशेषु ये केपि दर्शनिनः संति ते सर्वेपि स्त्रीधारकाः कर्तव्याः, नोचेत् देशेभ्यो बहिः कार्या" इति । ततो भीता यतयः केचित् समुद्रमुल्लंघ्य द्वीपांतरं गताः, केचित् भूमिगृहेषु प्रविष्टाः, केचित् कोलिककाष्ठिकादीनां स्थानेषु स्थिताः। तस्मिन्नवसरे श्रीजिनचंद्रसूरिभिः पाटणतो विहृत्य उपद्रववारणार्थ आगराख्ये नगरे आजग्मे । तत्र गुरुदर्शनादेव रंजितेन पतिसाहिना बहादरेण गुरव आहूताः, तदा गुरुभिर्बहुचमत्कारान् दर्शयित्वा प्राग्दत्ताज्ञा दूरीकारिता, सर्वत्र फुरमाणकान्मोचयित्वा सर्वे यतयः स्व स्व स्थान प्रापिताश्च । इत्थं बहुधा जिनशासनोन्नतिः कृता, पुनर्गुरूणां-१ समयराज, २ महिमाराज, ३ धर्मनिधान, ४ रत्ननिधान, ५ ज्ञानविमल-एतत्पांडवपंचकप्रमुखाः, पंच नवति (९५) शिष्याः संजाताः। एवंविधाः श्रीजिनचंद्रसूरयः सर्वायुः पंचसप्तति (७५) वर्षाणि पालायित्वा, सं० १६७० आश्विन वदिद्वितीयायां बेनातटे स्वर्ग प्राप्ताः॥६१॥ -तद्वारके सं० १६२१ भावहर्षोपाध्यायात् भावहर्षीय खरतरशाखाभिन्ना । अयं सप्तमो गच्छभेदः॥ ६२. तत्पट्टे द्वाषष्टितमः श्रीजिनसिंहसूरिः । तस्य च गणधरचोपडागोत्रीय साह चांपसी पिता, चतुरंगदेवी माता । सं० १६१५ मार्गशीर्षसुदि पौर्णमास्यां खेतासरनामे जन्म, मानसिंहेति मूलनाम । सं० १६२३ मार्गशीर्षवदि पंचम्यां वीकानेरे दीक्षा। सं० १६४० माघसुदि पंचम्यां जेसलमेरौ वाचकपदं। सं० १६४९ फाल्गुनसुदि द्वितीयायां लाहोरनगरे बीकानेर वास्तव्य मंत्रि कर्मचंद्रकृत महोत्सवेन आचार्य पदं । सं० १६७० वेनातटे सूरिपदं । सं० १६७४ पौषवदि त्रयोदश्यां मेडताख्य नगरे स्वर्गप्राप्तिर्जाता ॥६२ ॥ ६३. तत्पढे श्रीजिनराजसूरिः। तस्य च बोहित्थरा गोत्रीय साह धर्मसी पिता, धारलदेवी माता। सं० १६४७ चै० सु० ७ जन्म, सं० १६५६ मि० सु०३ वीकानेरे दीक्षा, राजसमुद्र इति नाम दत्तं । सं० १६६८ आसाउलिपुरे श्रीजिनचंद्रसूरिभिः वाचकपदं प्रदत्तं । ततः सं० १६७४ फा० सु० ७ मेडताख्ये नगरे चोपडा गोत्रीय साह आसकरणकृत महोत्सवेन सूरिपदं जातं श्रीजिनराजसूरिरिति नामविहितं; तथा द्वितीय शिष्य बोहित्थरा गोत्रीय सिद्धसेनगणिः, तस्मै आचार्यपदं दत्तं, जिनसागरसूरिरिति नाम विहितं । ततो द्वादशवर्षाणि यावदाचार्यः श्रीपूज्यानां आज्ञायां प्रवृत्तः, पश्चात्समयसुन्दरोपाध्याय-शिष्य हर्षनंदनकृत कदाग्रहेण सं० १६८६ आचार्य जिनसागरसूरितो लघु-आचार्याय-खरतर शाखा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy