________________
|| सरसरगम पावली-५॥ . ३३. ततः भारविप्रभसूरिः। ३४. ततः श्रीयशोभद्रसूरिः। ३५. ततः श्रीविमलचन्द्रसूरिः। ३६. तत्पढे श्रीदेवसूरिः। -तस्य च सुविहितमार्गाचरणात् 'सुविहितपक्षगच्छ' इति प्रसिद्धिर्जाता । ३७. तत्पढे नेमिचन्द्रसूरिः। ३८. तत्पट्टे उद्योतनसूरिः।
-अस्माच्चतुरशीतिगच्छस्थापना जाता। तत्स्वरूपं यथा-एकदा श्रीउद्योतनसूरि महा विद्वांस शुद्धक्रियापात्रं च विज्ञाय अपरेषांव्यशीति (८३) संख्यानां स्थविराणां त्र्यशीतिशिष्याः पउनार्थ समागताः, तान् श्री गुरुः सद्रीत्या पाठयति स्म। तस्मिन्नवसरे अम्भोहरदेशे स्थविरमण्डल्यां वृद्धस्य जिनचन्द्राचार्यस्य चैत्यवासिनः शिष्यो वर्धमाननामा सिद्धान्तमवगाहमानश्चतुरशीत्या (८४) ऽऽशातनाधिकारे आगते सति गुरुं प्रत्येवमुक्तवान्-'भोः! स्वामिन् ! चैत्ये निवसतामस्माकमाशातना न टलति, ततोऽयं व्यवहारो मे न रोचते' इत्युक्तं श्रुत्वा गुरुणा यथा यथा विप्रतारितोऽपि अयं स्वश्रद्धातो न परिभ्रष्टः । ततः श्रीउद्द्योतनसूरि शुद्धक्रियावन्तं श्रुत्वा तत्पार्श्वे समागत्य तस्यैव शिष्यो जातः, तदुपसंपदं च गृहीतवान् । ततः श्रीगुरुभिर्योगादिकं वाहयित्वा सर्वे सिद्धान्ताः पाठिताः, क्रमेण योग्यं ज्ञात्वाऽऽचार्यपदं दत्वा, गच्छवृद्धयादिलाभं विज्ञाय उत्तराखण्डे विहारार्थमाज्ञा दत्ता। ततो वर्धमानाचार्योऽपि गुर्वादेशं स्वीकृत्य तत्र गतः। अथ श्रीउद्योतनसूरिस्त्यशीति (८३) शिष्यपरिवृतो मालवकदेशात् संघेन सार्धं शत्रुजये गत्वा ऋषभेश्वरमभिवन्द्य पश्चाद् वलमानो रात्रौ सिद्धवडस्याधोभागे स्थितः, तत्र मध्यरात्रिसमये आकाशे शकटमध्ये बृहस्पतिप्रवेशं विलोक्य एवमुक्तबान्-'साम्प्रतमीदृशी वेला वर्तते, यतो यस्य मस्तके हस्तः क्रियते स प्रसिद्धिमान् भवति' । अथैतत् श्रुत्वा व्यशीत्याऽपि शिष्यैरुक्तम्-' स्वामिन् ! वयं भवतां शिष्याः स्मः, यूयमस्माकं विद्यागुरवः, ततोऽस्मदुपरि कृपां विधाय हस्तः क्रियताम् ' । ततो गुरुभिरुक्तम्-'वासचूर्णमानीयताम् ' । तदा तैः शिष्यैः काष्ठच्छगणादिचूर्णं कृत्वा गुरुभ्य आनीय दत्तम् , गुरुभिरपि तच्चूर्ण मन्त्रयित्वा त्र्यशीतेः शिष्याणां मस्तके निक्षिप्तम्, ततः प्रभाते श्रीगुरुभिः स्वस्य अल्पायुर्ज्ञात्वा तत्रैव अनशनं कृत्वा स्वर्गतिः प्राप्ता। अथ ते त्र्यशीतिरपि शिष्याः आचार्यपदं प्राप्य पृथग विहारं चक्रुः । अथैकः स्वशिष्यो वर्धमानसूरिः, त्र्यशीतिश्व इमेऽन्यदीयाः शिष्याः -एवं चतुरशीतिगच्छाः संजाताः ।
३९. उद्योतनसूरिपट्टे श्रीवर्धमानसूरिः स च षण्मासान् यावद् आचाम्लतपः कृत्वा,धरणेन्द्रं समाराध्य, श्रीसीमन्धरस्वामिपार्थे तं प्रेष्य सूरिमन्त्रं शुद्धं कारितवान् । तथा पुनरेकदा विहारं कुर्वन् सरसाख्ये पत्तने समाययौ । तस्मिन्नवसरे सोमब्राह्मणस्य द्वौ पुत्रौ शिवेश्वर-बुद्धिसागरनामानौ, एका च कल्याणवतीनाम्नी पुत्री, एवं त्रयोऽप्यते सोमेश्वरमहादेवस्य यात्रार्थ गच्छन्तः सरसाभिधाने पत्तने समाजग्मुः, तत्र सरस्वत्यां नद्यां स्नात्वा रात्रौ तव सुप्ताः, ततोऽर्धरात्रिवेलायां सोमेश्वरदेवः प्रादुर्भूय तेभ्य इत्युवाच--'भोः ! प्रसन्नोऽहम् , मार्गयत मनोवाञ्छितं वरम्; ततस्तैर्वैकुण्ठे याचिते स पाह-'भो ! ममापि वैकुण्ठं नास्ति, ततो भवद्भयः कुतो ददामि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org