________________
1.-4. ३०-20] जीतकल्पचूर्णि-विषमपदव्याख्या
सामर्थेऽतो वर्धते कल्पशब्दस्तदर्थधातुनिष्पन्नत्वात् । वर्णनायां यथात्र । यद्वा कल्पितो वर्णितः श्वाधितः । छेदने कल्पितं छेदितं वस्त्रम् । करणे ब्राह्मणार्थ कल्पिताः कृताः पूपाः। औपम्ये यथा-समुद्रकल्पमिदं तडागम् । भघिवासे यथा-कल्पिता अधिवासिता नानाय सज्जिता प्रतिमा । एतेष्वर्थेषु कल्पशब्दः ।
३०-4. परिणामगा-उत्सर्गापवादवेदिनः । कडजोगिणो-चउत्थाइ तवे कयजोगा। संगहसीला-वनपात्रविष्यादिसङ्घहपराः । अपरित्रान्ताः अखेदवन्त अगोपाझादिश्रुतार्थवेदिनः । बुद्धिवन्तो-मेपाविनः । एवमादीनि-आदिशन्दात्परिणताः श्रुतेन वयसा च। तत्र सोलवरिसारेण वयसाऽव्वत्तो, परेण वत्तो। भूतेन च अधीतनिषीथो व्यक्तः, शेषस्तदन्यः। तथा तरमाणगा-जे जं तवोकम्मं आढवेति तं नित्थरति तदन्ये तरमाणा इत्यादि प्रायम्। ३०-20. पावणं ति-पवित्रम् । निश्चितसूत्रार्थदायकश्चासौ अमलचरणच, तम् ।
॥ इति जीतकल्पचूर्णिविषया [ विषमपद-] व्याख्या समाप्ता ॥ जीतकल्पवृहसूर्णी व्याख्या शास्त्रानुसारतः। .
श्रीचन्द्रसूरिमिदृब्धा स्वपरोपकृतिहेतवे ॥१॥ मुनि-नयन-तरणि ( १२२७ ) वर्षे श्रीवीरजिनस्य जन्मकल्याणे।
. प्रकृतग्रन्थकृतिरियं निष्पत्तिमवाप रविवारे ॥२॥ संघचैत्यगुरूणां च सर्वार्थप्रविधायिनः।
वशा (विशो?)ऽभयकुमारस्य वसतौ दृब्धा सुबोधकृत् ॥ ३॥ एकादशशतविंशत्यधिकश्लोकप्रमाण (११२०) ग्रंथाग्रं।
ग्रंथकृतिः प्रविवाच्या मुनिपुंगवसूरिभिः सततम् ॥ ४॥ यदिहोत्सूत्रं किञ्चिद् दृब्धं छमस्थबुद्धिभावनया।
तन्मयि कृपानुकलितैः शोध्यं गीतार्थविद्वद्भिः ॥५॥ ॥ समाप्ता चेयं श्रीशीलभद्रप्रभुश्रीधनेश्वरसूरिपादपनचंचरीक श्री श्री चंद्रसूरिसंरचिता जीतबृहचूर्णि-दुर्गपदविषया निशीथादिशास्त्रानुसारतः संप्रदायाच
सुगमा व्याख्येति ॥ यावल्लवणोदन्वान् यावन्नक्षत्रमंडितो मेरुः । ने यावश्चन्द्रार्को तावदियं वाच्यतां भव्यैः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org