SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ४ विजयपाल- विरचितं ( ततः प्रविशति कृष्णः । ) कृष्णः -- ( विमृश्य स्वगतं सहर्ष ) तस्मै देया त्वयाऽसौ खलु निजतनया यो धनुर्वेदधीरो राधावेधं विधत्ते द्रुपदनरपतेः पूर्वमादिष्टमेवम् । दम्भोलिस्तम्भशोभासुभगभुजयुगभ्रा निपार्थानुयाता स्ते चानीता इहैवानिलतनयसुतं प्रेष्य पाण्डोस्तनूजाः ॥५॥ तदिदं तावत्सुविहितम् । परमद्यापि कियदवशिष्यते । भवतु तावत् । आयातु भीमः । ( ततः प्रविशति भीमः । ) ( भीम: परिक्रम्य यथोचितं सम्भावयति । ) भीमः - ( सविनयं ) अयि भगवन् ! वीरावतंसकंसविध्वंसलब्धप्रशंस ! किमिति वयमाकारिताः । आदेशदानेन प्रसीदतु भगवान् । कृष्णः वत्स ! पाण्डवाभ्युदयादन्यन्न वयं कदा किञ्चिदप्युपक्रमामहे । ततः परशुरामप्रसादीकृतपञ्चशरीमध्याद् राधावेधाय सूतसूताद्विशिखद्वयं याचनीयम् । तच्चादाय अलक्षितवेषविशेषविधातृभिः स्वभ्रातृभिः सह कृतार्थेन भवता राधावेधमण्डपो ऽलङ्करणीयः । वयमपि सम्प्रति तत्र राधावेधनाटके द्रुपदनरपतेः परिपार्श्ववर्तिनो भवामः । ( इति निष्क्रान्तः । ) भीमः -- ( परिक्रम्य पुरोऽवलोक्य च ) अये ! अमानदानसानन्दबन्दिसन्दोह सङ्कुलम् । कर्णस्य मन्दिरद्वारमनुक्तमपि लक्ष्यते ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003432
Book TitleDropadiswayamvaram
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1928
Total Pages52
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy