SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५६ विज्ञप्तिलेखसंग्रह तथा चआः किं व्योम्नश्युतमिदमहो ! स्वर्गखण्डं प्रचण्ड ?, किं वाप्युद्भिद्य हृद्यः क्षितितलमसकौ निर्गतो नागलोकः १ । रङ्गगाङ्गेयकुम्भावलिकलितमहोद्दामहातिरम्यं, दौं दर्श पुरमिति वितर्कास्पदं सम्भवामः ॥ ६७॥ . तदनु सङ्ग्रेन प्रथमतीर्थदर्शनप्रभवन्महानन्दानुसारेण दानधर्माद्युचितमनुल्लङ्घयता5 तीर्थभक्तिर्व्यक्तीचके । शनैः शनैरयत्नोपस्थितां कृत्रिमा सजलां नगरस्य परिखामिव पातालगङ्गाज्ञातिजामिव बाणगङ्गां- “एगं पायं जले किच्चा, एगं पायं थले किच्चा" - इत्यादिपदानि यतनाङ्गान्यनुस्मरन्त उल्लाघा उल्लचितवन्तः। तदा च सङ्घागमनमाकर्ण्य चम्पकस्रक्कलापकलितमौलयो मसृणघुसृणरसाक्तोज्वलाच्छपीनवसनाः, नागवल्लीदलचर्वणेनेव विमलवचनेन रञ्जितवदनाः, काञ्चनमयशस्त्रिकया वर्ण्यवर्णालङ्कारेणेव भासुरितकटितटाः, स्वर्ण॥ शृङ्गारा निजरूपशृङ्गारितखर्णा वा, निरुपाधिप्रीतिगौराः पौरास्ते तेऽभ्यागतवात्सल्यविधित्सया सङ्घस्याभिमुखीना बभूवुः-इति । ततश्च तान् गूर्जरेभ्योऽप्यधिकितविवेकाँल्लोकान् साधूचितभाषया सम्भावयन्तस्तैरेव सह महत्युत्सवे जायमाने पुरं प्रवेष्टुमुपक्रान्ताः। चित्रमिव बहुवर्णोपशोभितं, धर्मागारमिव बहुगणिकं नगरान्तरं मध्ये कुर्वाणाः, सङ्घसामाचारीविद्भिः पौरैः सङ्घार्थे क्रियमाणं 15 प्रवेशमहलं तत्साहचर्याद वयमप्यनभवन्तः, शनैः शनैरपूर्वापूर्वस्थानावलोकनाद विस्मितविस्मिताः, पताकापीतगगनं हश्रेणिसङ्कुलं राजमार्गमतिक्रम्य शनैर्हषितहृषिता इव किञ्चित्त्वरितत्वरिताः, प्रेरिता इव परमोत्साहेन, आकृष्टा इव सुकृतलक्ष्म्या, कटाक्षिता इव भाग्यमृगाक्ष्या, आता इव सन्मत्या, विधृता इव धृत्या, आहूता इव सद्गत्या, रमिता इव रत्या, विस्मारिता इवारत्या, उपेक्षिता इव बुभुक्षया, अनवलोकिता इवातङ्केन, अचि2न्तिता इव चिन्तान्तरेण, विस्मारिता इव मार्गश्रमेण, अस्पृष्टा इव तृषया, अभिगमिता इव परमानन्देन, किमप्यतितरमानन्दतुन्दिला उद्भिद्यमानरोमकन्दला महामदनभेर्यादिवादकेषु शब्दब्रह्माद्वैतमिव वितन्वत्सु सर्वार्थसिद्धिद्वारमिव श्रीशान्तिनाथजिनप्रासादसिंहद्वारमनुप्राप्ताः-"निस्सही निस्सही नमो जिणाणं" - इत्यादिविस्तारखरेणोचचूर्यमाणा रोमाञ्चकञ्चकितगात्राः, तृषिता इव सुधासरः, क्षुधिता इव परमान्नं, निर्द्धना इव रत्नस23 म्भृतनिधिलाभ, द्रमका इवैश्वर्यम् , काश्चनकलशोपशोभितं साधुक्षीमसिंहकारितप्रासादे परमखरतरश्रीजिनेश्वरसूरिप्रतिष्ठितं श्रीशान्तिजिनपति भेटितवन्तः परया भक्त्या । ततश्च त्रिप्रदक्षिणीकृत्य कृत्यविदा सह सङ्घन पुराणाभिनवैः स्तवैगृहस्थोचितैः पुष्पैरिव संवत् १४८४ वर्षे ज्येष्ठमासे ज्ञानपञ्चमी दिवसे सम्भावितवन्तः। ततश्च सफलमिव जन्म मन्वाना मार्गप्रयासमपि पूरिताशमिव गणयन्तस्तत्तन्निर्विकृत्या3 द्यभिग्रहग्रन्थि छुटितमिवावधारयन्तस्तदा तदा च पूज्यान् युष्मादृशान् पुण्यपुरुषानप्यविस्मारयन्तो द्वितीयस्मिन् विहारे नरेन्द्ररूपचन्द्रकारितं शाश्वतप्रतिमानुकारि जात्यजाम्बूनदमयप्रतिममत्यद्भुतं श्रीवर्द्धमानस्वामिनं तमस्युझ्योतमिव, तथाविधकान्त्यतिशयान्नेत्रामृतप्रवाहमिव, परमकर्पूराणुनिम्मितमिव, परमानन्दमयमिव, दर्श दर्श चिरं चेतसि कारं कारं Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy