________________
विज्ञप्तिलेखसंग्रह
सर्वत्र सन्ति बहुधा जिनराजमूर्तयो, लोकाः परं यदिह सर्वदिगन्तवासिनः । हर्षात् समेत्य रचयन्ति तथा प्रभावनां, शके तदस्य सकलं महिमाविजृम्भितम् ॥ ६० ॥ एवंविधः समग्रायजाग्रदद्भुतातिशयवसतिः श्रीशत्रुञ्जयोर्वीधरः सकललोकलोचनाम्भोजगोचरः स्फारीबभूव चास्य मनसि तत्ताहशाहादोत्करः। विशेषेण लिग्धलपनेप्सि। तासरसनालिकेरक्रमुकादिभिः पूजाविधानेन प्रथमोत्साह विधीयमानामितवित्तदानेन च परमहृदयङ्गमभावोल्लासनेन च अकृतसुकृतराशीनां दुर्लभं श्रीसिद्धाचलदर्शनं फलिनं चकार श्रीसङ्घः। F३४. तदनु च क्रमेण श्रीपादलिप्ते पुरे त्रिकरणविशुद्धिकारिणं त्रिभुवनसाम्राज्यवितारिणं श्रीमूलविहारस्थश्रीपार्श्वजिन-ललतासरःकण्ठस्थायिप्रासादप्रसाधिश्रीवर्द्धमानप्रभुपर्वतपद्या" मुखविभूषिश्रीनेमीश्वरार्हत्रयसङ्गमं वन्दननमस्करणलपनपूजनमहाध्वजारोपनिरन्तरजनभोजनादिविधानः फलदायिनं यशोदायिनं निरमासीत् ।
[सङ्घकृतशत्रुञ्जयपर्वताधिरोहणवर्णनम् । ] ६३५. ततश्च श्रीसङ्घः प्रमथ्य प्रथीयःकलिकालबलं मृदित्वा दुर्दमवाहीकान्तरासहनानां च बलम् , प्रबलप्रमदाकुलितहृदयः प्रगुणीकृतमहोद्यमहयः सजितप्रायोगिसदुपकरणनिचयः 15 श्रेणीकृतबालवृद्धतरुणजनचयः करगृहीतसधरभारक्षमसरलसुकुमालयष्टिकावलीविरली
भूतविषममार्गस्खलनभयः प्रतिपदप्रवर्द्धमानजिनदर्शनस्पृहालयः क्षणक्षणनिरावरणीभवजिनदर्शनान्तरायक्षयविधायिपुण्यसमुदयः प्रेतत्पदन्यासैरचिरेणैव प्रभुगुणैराकृष्यमाण इव श्रीभूधरमूर्द्धनमध्यारुक्षत् ।
६३६. तदनु समतिक्रान्तपुरःस्थशृङ्गोऽकस्मादुन्नमितग्रीवसमुदाक्रान्तबहुलशैवलपटलः सार७ समत्स्य इव शारदपूर्णमासीनिशीथशोभिनं तारतारकनिकरपरिवारितं सुधामयूखमण्डलम्, दूरीकृतावरणपरिच्छदनवोत्पन्नगीर्वाण इव नानाप्रकारसारविहारशालागवाक्षादिचक्षुष्यस्थानादिहृदयङ्गमं दिव्यविमानम् , विघटितघातिकर्मचतुष्टयमुनीन्द्र इव सानन्तालोकं चतुर्दशरज्वात्मकलोकम्, अनेकदेवगृहिकामठमन्दिरगवाक्षचतुष्किकादिव्यदेवकुलावलीचारुपाकार
तोरणादिसुन्दरम् , दर्शिताद्वैतवादं श्रीमूलप्रासादं समीक्ष्य; किमेतत् किमेतदिति हर्षाश्चर्य3 कुतूहलकलितमनाःप्रथमं प्रथमकारणं सकलतीर्थाणां सकलजगज्जननीं भगवतीं मरुदेवीं धुरी
णकेवलज्ञानसिद्धिस्थाननिमित्तास्थानावस्थितां समुपास्य ततश्चाग्रतोऽभ्रंलिहविहारोदरविराजिनम् , समस्तविद्यामन्त्रौषधरसरसायनसाधनविधिसाधीयःप्रतापिसौम्यलोचनविलासम्, महाप्रभावितया प्रतिप्रभातं प्रभाभापि प्रथमं करजालाश्लेषमिषेण प्रत्यग्रप्रसूनमालाभिरिवाभ्यय॑मानम् , प्रतिशुक्लपक्षं राकावलक्षत्विषापि सौवचन्द्रिकाचयादिमपरिचयव्याजेन सु७ धारसधाराभिरिवाभिषिच्यमानम् , कलौ कल्याणाकरम् , अद्भुताकृतिधरं श्रीशान्तिजिनवरं सादरं समाराध्य च; क्रमेण नानाविधमनोहरप्रासादसौन्दयामृतरसं नेत्रपुटकरावादयन् कुकर्मभिः सह नृत्यमानचञ्चच्चरणैः पद्यापथकर्करोत्करं परिचूर्णयन् क्षणात्परमपदपुरप्रतोलीमिव प्राकारद्वारमविक्षत् । ततोऽपि वामदक्षिणपृष्ठपुरोभागविभ्राजिष्णुश्रीखरतरविहारश्रीनन्दीश्वरेन्द्रमण्डपोजयन्तावतारादिश्रीवर्गारोहण-त्रिलक्षतोरणादिस्थानरामणीयक
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org