________________
विनयवर्द्धन गणिप्रेषिता विज्ञप्तिका
मन्दा अकार्यकरणे परस्त्रीदर्शनेऽन्धकाः । मूकाश्च परदोषोक्तावसन्तुष्टा गुणग्रहे ॥ ४० ॥
पापेभ्यो भीरुका यत्र लोका लुब्धा यशोऽर्जने । निःशूकाः पङ्कसंहारे दाने व्यसनिनस्तथा ॥ ४१ ॥ महेभ्यसभ्यद्रविणादिपूर्णे विराजमाने नृपसौख्यवृन्दैः । श्रीतातपादोदकजन्मरेणुपुण्यीकृते श्रीमति तत्र वर्ये ॥ ४२ ॥ अथ विहदिवर्णनं लिख्यते -
उत्तुङ्गशृङ्गः स्फटिकाश्मबद्धो जिनालयः प्रौढचलत्पताकः । कीर्त्तरिव स्तम्भ इहास्ति यत्र, ..किल कारकाणाम् ॥ ४३ ॥ प्रासादा जिनराजस्य द्योतन्ते यत्र सुन्दराः । दातारः कल्पितार्थस्य मन्दारा इव नन्दने ॥ ४४ ॥ धर्मध्यानपरा यत्र शीलाभरणभूषिताः । श्रावकाः श्रीगुरोर्भक्ता दीनोद्धरणसादराः ॥ ४५ ॥ राजमानगुणग्रामा बहुशास्त्रविचक्षणाः । सद्दानगुणसंयुक्ता धनेन धनंदोपमाः ॥ ४६ ॥ - यमलम् । यत्र सर्वोऽपि वास्तव्यलोकः परमधार्मिकः । दृढप्रतिज्ञो निपुणो भद्रकप्रकृतिस्तथा ॥ ४७ ॥ वापीवप्रवनोत्कीर्णाद् विप्रवित्तविभूषितात् । अपूर्वस्वर्गसादृश्याद् विहदिनगरात्ततः ॥ ४८ ॥ सन्नीतिरीतिविनयावनतोत्तमाङ्गविन्यस्तहस्तपरिदर्शितभक्तिभावः ।
आयलकोत्पुलकिताङ्गलताविभागः प्रह्लादमेदुरमना विनयस्वभावः ॥ ४९ ॥ निर्मापितग्रहपतिप्रमितप्रणामं विज्ञप्तिकापुटकिनीमयमेकचित्तः ।
भक्त्याऽवतारयति वर्णविशिष्यमाणां शिष्याणुको विनयवर्द्धन आदरेण ॥ ५० ॥
पूर्वाद्रिचूलामवलम्बिनि श्रीदिनाधिनाथे किल कुङ्कुमाभैः । काष्ठामृगाक्षीवदनानि रक्ते मुदा करैर्मण्डयति स्वकीयैः॥५१॥ शब्दायमाने तरुताम्रचूडे जरज्जपापुष्पगणप्रकाशे । कृष्णान्धकारे प्रलयंगतेऽथ यथाऽत्र कृत्यं प्रतिवासरं च ॥ ५२ ॥ पर्षद्यमर्षमुषि हर्षपुषि प्रसिद्ध श्रद्धावदिभ्यजनराजिविराजितायाम् । श्रीपञ्चमाङ्गवरसूत्रपवित्रवृत्तेर्व्याख्याकृतिः सुकृतिनिर्मितहृत्प्रसत्तेः ॥ ५३ ॥ प्रज्ञापनोपाङ्ग विशिष्टसूत्र स्वाध्यायचञ्चत्करणं मुनीनाम् ।
अध्यापनं चाध्ययनं त्रिसायं श्राद्धोपधानोद्वहनं स्वशक्त्या ॥ ५४ ॥
इत्यादिकं शोभनधर्मकार्यं जातं मुदा संप्रति जायते च । श्रीतातपादस्मरणप्रभावप्रोद्भूतपुण्योदयतस्तथा च ॥ ५५ ॥ क्रमागते वार्षिकपर्वणीत्यतिभीत्यभावे समपर्वदीपे । अभून्नवीनक्षणकल्पसूत्रसुवाचनं साधुनवक्षणैश्च ॥ ५६ ॥ अष्टाहिकापक्षचतुर्थमासाऽष्टमादिकोत्कृष्टतपोविधानम् । सप्ताधिकैः स्नात्रविधेर्विधानं जिनेन्द्र गेहे दशभिः प्रकारैः॥५७॥ वाञ्छाधिकं मार्गणमण्डलीनां द्रव्यप्रदानं निजशुद्धभावात् । परस्परोत्पन्नरुषापहारः प्रभावनोद्भूतविभूतिसारः ॥ ५८ ॥ 25 विशेषतः सद्गुरुदेवभक्तिः समस्तसाधर्मिकवत्सलत्वम् । पूर्वार्जितांहोहरणे प्रसक्तिः संसारशल्योद्धरणं जनानाम् ॥५९॥ इत्यादिसत्पर्वनिबद्धधर्मकृत्यं समग्रं समभूत् सशर्म । श्रीतातपादांहिसरोजयुग्मसंसक्तसङ्ख्यानकृतिप्रसादात् ॥६०॥ अथ श्रीगुरुवर्णनम् -
का मान्या नरनाथपर्षदि भवेत् ? कः प्राणिनां धर्मतः ?, किं तिष्ठेत् स्थिरमङ्गिनां ? गजघटाविध्वंसने को चली?* । विन्ध्याद्रिं स्मरति प्रमोदकरणे कः पङ्कजानां स्मृतः ?, कुम्भो मङ्गलमातनोति पथिकप्रस्थानके कीदृशः ? ॥ ६१ ॥ प्रश्नाद्यक्षरसंग्रहाद् भवति यो वाचंयमाधीश्वरः, उद्यत्स्वीय कुलाम्बराम्बरमणिं श्रीगौतमस्वामिनम् । 'लब्ध्या श्रीविजयादि देवगणभृत्पट्टान्धिरात्रीश्वरं तं श्रीपूर्वकमादरेण भविनां सौभाग्यदं संस्तुवे ॥ ६२ ॥ अथ कमलबन्धः -
काम्बुजसारङ्गं कोविदसंहतिच कोरसारङ्गम् । सुकृतसरः सारङ्गं पापप्रबलतरुसारङ्गम् ॥ ६३ ॥ * " दिवि सदा के सन्ति किं भूधरान् दीर्घान् हन्ति बलात् ।' इति वा पाठः ।
Jain Education International
.......................
२११
For Private & Personal Use Only
10
15
20
www.jainelibrary.org