________________
२००
विज्ञप्तिलेखसंग्रह
श्रद्धालवो यस्य गुणानुरक्ता जीवादितत्त्वैकविचारदक्षाः।
श्रीपञ्चमाङ्गे पुरि तुङ्गिकायाः श्राद्धा इव प्रोक्तगुणा विभान्ति ॥ १८॥ सुश्राविका यत्र पवित्रपात्रे दानं ददत्यः शिवसौख्यदातृ । लता इवास्वप्नतरोर्दधत्यः सुशीलमाभान्ति वरं पुरन्ध्यः ॥१९॥
यत्रोन्नतानीश्वरमन्दिराणि राजन्ति नानामणिनिर्मितानि ।
दिव्यानि वातायनमण्डलानि कामं गृहाणीव सुधाशनानाम् ॥२०॥ यत्र गेहा एकभूमा द्विभूमाः सप्तभूमिकाः । भासन्ते व्यायता वृत्ताश्चतुरस्राः सहस्रशः ॥ २१॥ चतुष्पथं यत्र विचित्रहट्टश्रेणीभिरानन्दितसार्थवाहम् । विक्रायककायकवस्तुवृन्दं चकास्ति साक्षादिव कामकुम्भः॥२२॥
सौवर्णो यत्र वोऽस्तीन्द्रनीलकपिशीर्षकः । सखातिकः क्षितिस्त्रीणां मन्ये किं कर्णकुण्डलः ॥ २३॥ वत्र श्लोका महालोका मानवा मानवागमाः । नागरा नागराः सन्ति प्रमदाः प्रमदान्विताः ॥ २४ ॥ उद्यानं वर्त्तते यत्र नानावृक्षसमन्वितम् । सर्व फलसूनानि ददत् किं नन्दनं वनम् ॥ २५ ॥ श्रवन्तः करयो दानवारि गर्जन्त उन्नताः । शतशो यत्र भासन्ते कृष्णा जलधरा इव ॥ २६ ॥ कीनाशा राक्षसद्वीपे सरोगास्तु विहङ्गमाः। केशाः सबन्धना दण्डसहिताश्चैत्यपतयः ॥२७॥ सच्छिद्रा धनिनां मुक्ता नारायणा जनार्दनाः । कूटयुक्तास्तानभेदा यत्र लोका न केचन ॥२८॥ मूका यत्रान्यदोषोक्तौ परस्त्रीवीक्षणेऽन्धकाः । पङ्गवोऽन्यधनचौर्ये निर्दयाः पापमर्दने ॥ २९ ॥ स्पर्डोपेता धर्मकृत्ये दाने व्यसनिनो जनाः । गुणैकभाजनं भान्ति जैनधर्मपरायणाः ॥ ३०॥ श्रीपूज्यपादराजीवरजःपुञ्जपवित्रिते । तत्र श्रीमति विख्याते अहम्मदपुरे वरे ॥ ३१॥ जिनालयद्वयं भाति सुन्दराकृति यत्र किम् । मन्ये मुक्तिपुरीक्षायै भविनां नेत्रयामलम् ॥ ३२ ॥ वसन्ति यत्र धर्मिष्ठा गुरुभक्ता महेश्वराः। विबुधा बहवो लोका देवलोकसुरोपमाः ॥ ३३ ॥ वाग्ग्मिविप्रवशावापीवैद्यवर्णविभूषितात् । धीणोजस्थानतस्तस्मान्महि(ही)स्त्रीतिलकोपमात् ॥ ३४ ॥ सविनयं सहरिष सायल्लकं सभक्तिकम् । सोलासं प्रेमसंयुक्तं ससन्तोषं ससंस्मृति ॥ ३५॥ हर्षोत्कर्षोलसद्रोमाञ्चितस्वीयशरीरकम् । मोदमेदुरितस्वान्तं विनयानतमस्तकम् ॥ ३६ ।। भालस्थलतलन्यस्तकरसंपुटकुमलः । पञ्चाङ्गस्पृष्टभूभागस्तातपादरजस्कणः ॥ ३७॥ देवलोकमितावर्त्तवन्दनैरभिवन्ध सत् । बालको वरविज्ञप्तिं तनुते रविवर्द्धनः ॥ ३८॥ यथावानुदिनं कृत्यमुदिते भास्करे सति । पद्मकाननसंफुल्ले तमोभरे क्षयङ्गते ॥ ३९ ॥ प्रभातसमये पारिषद्यालङ्कृतपर्षदि । नन्दिखाध्यायकरणं नेमिचरित्रवाचनम् ॥ ४० ॥ शास्त्राणां सादरं साधोः पाठनं पठनं स्वयम् । इत्यादिधर्मकृत्यानि प्रवर्तन्ते ससंमदम् ॥४१॥ आनुपूर्व्या समायाते श्रीमद्वार्षिकपर्वणि । सर्वपर्वशिरोरत्ने विविधोत्सवहारिणि ॥ ४२ ॥ जिनेन्द्रभवने सप्तदशप्रभेदपूजया । अर्हतां पूजनं स्नात्रविधानं समहोत्सवम् ।। ४३॥ व्याख्यानैवभिः कल्पसूत्र-तद्वृत्तिवाचनम् । नवप्रभावनायुक्तैर्वित्तं दानार्थितोषणम् ॥४४॥ साधर्मिकवात्सल्यकरणं पुण्यकारणम् । इत्यादिपर्वसम्बन्धिधर्मकाण्यनेकशः ॥४५॥ निर्विघ्नं समजायन्त महामहः पुरस्सरम् । श्रीतातपादसन्नाममहामत्रप्रभावतः ॥ ४६ ॥
अपरं श्रीपरमगुरूणां वर्णनम् - श्रीचन्द्रगच्छशतपत्रविराजिराजीप्रोत्फुल्लताकरणवासरमणिप्रकाशम् । स्तोष्ये मुदा विजयदेवगुरुं त्रिलोकीविस्तारिनिर्मलतपोमहसा प्रकाशम् ॥१॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org