________________
१९४
विज्ञप्तिलेखसंग्रह त्रैलोक्यव्याप्तसल्लोकाः श्रीजसविजयाह्वयाः । श्रीमत्तत्रभवच्चारुशिष्टिप्रवर्तनोच्चलाः ॥ ७२ ॥ भाखत्तमप्रतिभामाः श्रीरविवर्द्धनाह्वयाः । श्रीपूज्यपादपाथोजसेवाहेवाकमानसाः ॥७३॥ तत्त्वातत्त्व विमर्शज्ञाः श्रीतत्त्वविजयाभिधाः । श्रीतातपादपादाब्जमकरन्दसितच्छदाः ॥ ७४ ॥ अन्ये येऽज्ञातनामानः श्रीपूज्यचरणान्तिके । नंनंमि चानुनंनंमि यथायथं विपश्चितः ॥ ७५ ॥
सौवाङ्गबर्हातिनिरामयत्वतत्काम्यप्रमेयाम्बुभरैः सुमांसलम् । लेखाम्बुदं मच्छयशैलशेखरं, संभूषयन्तं तमवेक्ष्य सादरम् ॥ ७६ ॥ मत्स्वान्तमजिष्ठमयूर एषः, बंहिष्ठमामोदभरं प्रदध्यात्।।
तं तं यथा श्रीवरपूज्यपादैः, सद्यः प्रसघाशु तथा प्रणेयम् ॥ ७७ ॥ अत्रत्याः साधवः सर्वे पुण्यसुन्दरसंज्ञकाः । ज्ञानसुन्दरनामानो महिमासुन्दराभिधाः ॥ ७८ ॥ जयसुन्दरनामानस्तिलकसुन्दराह्वयाः । गङ्गसुन्दरनामानः सौभाग्यसुन्दराह्वयाः ॥ ७९ ॥
श्रीमत्तत्रभवत्पादपाथोजयामलं सदा। त्रिसायं नंनमत्युच्चैः प्रोल्लसन्मानसाम्बुजाः ॥८॥ श्रीमत्कौमुदमासस्य लेखोऽलेखितमां मया । वलक्षेतरसप्तम्यामिति स्तान्मञ्जमङ्गलम् ॥ ८१ ॥
॥ पूज्याराध्यध्येयतमसकलसकलभद्दारकमौलिपेशलशतदलमाल्यतमक्रमकमलयमलभहारकश्रीश्री १०५ श्रीविजयप्रभसूरीश्वरचरणसरसि
जानामयं विज्ञप्तिलेखः । श्रीमजीर्णदुर्गे ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org