________________
राजविजयगणिप्रेषिता विज्ञप्तिका क्षाराम्भोनिधिफेनपिण्डधवलैः स्फूर्जयशोराशिभिर्नानालोकजिनोक्तधर्मपदवीसंप्रापणप्रोद्भवैः ।। भूमीविष्टपमण्डलं सुविपुलं व्यासीकृतं सर्वतो, येषां नीतिमतां पदार्थपटलं सत्त्वादिधर्मैरिव ॥ ४७॥ लोकालोकनभस्तलं यदि भवेल्लंघ्यं नृणामंहिभिः, प्रालेयाचलशृङ्गगर्भशिशिराः सूर्यांशवः स्युर्यदि । कल्याणाद्रिरिव स्थिरोऽतिपवनः सर्वत्र च स्याद्यदि, स्युर्ये श्रीजिनचन्द्रसूरिविभवस्पर्शास्तदा दूषणैः ॥४८॥ येषां पुण्यवतां विशालभुजयोः स्थास्तूंश्च शक्त्यकुरान् , 'पुष्टस्पष्टविपक्षपक्षकलशोद्भेदोरुयष्ट्यर्चयोः। दर्श दर्शमिमानशेषविषयांस्त्यक्त्वाऽतिगूढात्मना, प्रत्यन्तेषु गतोऽपि पातक[कटस्त्रस्य॑स्तु संतिष्ठते ॥४९॥ चन्द्रे शीतगुणो यथा दिनमणेरुष्णात्मको मण्डले, नित्योऽयं तु गुणो यथा धवलिमा हंसे गुणो विश्रुतः। पानीये मधुरो यथा क्षितिपुटे सर्वसहत्वं यथा, येष्वास्ते प्रभुषु स्फुटं किल तथा धैर्याभिधानो गुणः ॥ ५० ॥ यावज्जैनमतं मतं मतिमतां यावदिशश्चार्णवाः, यावलोककला च भानुशशिनौ यावद्वियन्मडलम् । यावद्वेदकथा गतिश्च मरुतो द्रव्याणि यावत् क्षितिर्जीयासुर्जिनचन्द्रसूरिगुरवस्तावञ्चिरं ते नयाः ॥५१॥ .
(-षोडशभिर्वृत्तैः संबन्धः।) दाशार्हाग्रज इन्द्र उष्णकिरणः सप्ताश्वकश्चन्द्रमा, अत्रेनेंत्रमलोद्भवः किल मरुदृक्षः सुराधिष्ठितः। वारीशो मकराकरो जलधरो धूमादिजो गीयत, इत्येवं सकलोऽपि वस्तुनिचयो दोषाश्रये (यो) विष्टपे ॥ ५२ ॥ तत्केनोपमिमीय भारति ! वद श्रीजैनचन्द्रप्रभु, पृष्टेति प्रवरा सती भगवती कृत्वा प्रसादं धनम् । प्रत्यबूत माय प्रसन्नमनसा मा वाक्यमित्येव साऽनन्यौपम्यमिमं विभुस्त हि (१) चिरं सार्वप्रतिच्छायतः॥५३॥
-युग्मम् । अप्राज्ञा अपि ते भवेयुरचिरात् प्राज्ञप्रभाभ्यन्विता, आजन्मावधि दुर्गता अपि जनाः संस्थास्तु लक्ष्मीजुषः । दुर्भागा अपि ते सदाऽपि सुभगा ये वीक्षिता स्वामिभिर्यैस्ते सौम्यदृशा नृपाश्चितपदास्तत्त्वं तु नस्सम्मदम् ॥५४॥ ते धन्या भुवने त एव गुणिनो वन्द्याः सतां ते सदा, तेऽभिज्ञास्त एव चोत्तमनृणां दृष्टान्तरूपा दृढम् । ते प्रोत्तीर्णविपत्तिवारिनिधयस्ते पुण्यभाजो जना, ये पश्यन्ति जगद्गुरोरनुदिनं वक्त्रं गृहं तेजसाम् ॥ ५५॥ . धात्रीभृत्सु महान् सुमेरुरचलः शस्त्रेषु वज्रं यथा, तार्क्ष्यः पक्षिषु गोषु कामसुरभी रत्नेषु चिन्तामणिः । कल्पद्रु?षु नन्दनं वनगणेष्वैरावतो हस्तिषु, जम्भारिस्त्रिदशेषु सूरिषु तथा श्रीजैनचन्द्रो महान् ॥ ५६ ॥
अथ भूयोऽपि स्वामिपरिवारस्तवनद्वारेण तानेव स्तुमः
वरपाठका हि वसुधाधिभुवां, हृदयानुरञ्जकतरैः स्वगुणैः। प्रसरद्यशःसमुदयाः सविधे सुगुरोर्विभान्तु सुमतेर्विजयाः ॥ ५७ ॥ अध्यापकाः श्रीसुमतीति सिन्धुरा, अद्वैतवैदुष्यनिसर्गवन्धुराः । राजन्तु नम्रीकृतवादिकन्धरा, गुईहिमूले प्रतिघस्रकन्धराः ॥५८ ॥ वाग्ग्मिव्रजो यैदृढयुक्तयुक्तिभिर्नीचैः कृतः सद्य उदीतबुद्धयः । श्रीपुण्यहर्षी गणयः सुपाठकाः, श्रीमद्गुरोस्ते सुरजन्तु मानसम् ॥ ५९॥ खारातराख्यस्य गणस्य भूयसः, संप्राप्य राज्यं गुरुतामुपेयिवत् । यं मत्रिणं श्रीयुजमीशवत्सलं भावप्रमोदो जयतात् स कोविदः ॥ ६॥ सा?क्तसिद्धान्तरहस्यवासनासंवासितोदग्रमतिप्रसारणः । रूपादिहर्षे त्यभिधानवाचको, भूयात् प्रसादस्य गुरोः सुभाजनम् ॥ ६१ ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org