SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पण्डितप्रघर श्रीसाधुसुन्दरगणि- कृत 'दीघउ, लीघउ, कीधउ' इत्यादी ह्यस्तन्यद्यतन्यौ परोक्षा च । 'काल्हि दीधउ' इत्यादौ ह्यस्तन्येव, न परोक्षायतन्यौ । 'आज दीघउ, आज लीधउ' इत्यादी अद्यतनी, न परोक्षाह्यस्तन्यौ । 'म देइ, म लेइ, म करि, म देसि, मलेसि, म करिसि' इत्यादी माशब्दयोगेऽद्यतनी, मास्म योगे ह्यस्तन्यद्यतन्यौ, माङ्योगे तु यथाप्राप्ते पञ्चमी भविष्यन्ती च । 'म दीधु, म लीधु, म कीधु' इत्यादौ कर्मणि माशब्दयोगे अद्यतन्याः, मास्मयोगे ह्यस्तन्यद्यतन्योः, माङ्योगे तु पञ्चम्या आत्मनेपदम् । 'जइ देत, जइ लेत, जइ करत' इत्यादौ क्रियातिपत्तिः । 'जइ दीजत, जइ लीजत, जड़ कीजत' इत्यादौ कर्म्मणि क्रियातिपत्तेरात्मनेपदम् । ‘देसिइ, लेसिइ, करिसिइ' इत्यादी, 'नही दियइ, नहीं लिया, नही करई' इत्यादौ च भविष्यन्ती । ३६ ‘दीजिसिइ, लीजिसिइ, कीजिसिइ' इत्यादी, 'नही दीजइ, नही लीजइ, नही कीजइ' इत्यादौ च कर्मणि भविष्यन्त्या आत्मनेपदम् । ‘काल्हि देसिइ, काल्हि लेसिइ' इत्यादी श्वस्तनी । ‘वर्षशत जीविसिइ, वइरी जिणिसिह' इत्यादी आशीर्युक्ते भविष्यति काले आशीः । अथ कृत्प्रत्ययप्राप्तिमाह 'देतउ, लेतउ, करतउ' इत्यादौ कर्त्तरि वर्तमाने शत्रुशानौ परस्मैपद्यात्मनेपदिनोः । उभयपदिन उभावपि । 'दीजतउ, लीजतउ, कीजतउ' इत्यादौ कर्मणि शानः | देणहार, दायकः दाता; लेणहार, लायकः लाता; करणहार, कारकः कर्ता इत्यादी वर्त्तमाने अकतृयौ । 'दीधउ' दत्तः दत्तवान् ; लीघउ, लातः लातवान्; कीधउ, कृतः कृतवान् इत्यादी अतीते क्तक्तवतू; कर्मणि क्तः, कर्त्तरि तन्तुः । गत्यर्थाकर्मकादिभ्यः कर्त्तरि क्तोऽपि । यथा-अयमागतः आगतवानपि । तथा परस्मैपदिनः कसुः, आत्मनेपदिनः कानः, उभयपदिन उभावपि । 'देइउ, लेइउ, करीउ' इत्यादौ क्त्वा, 'देवा, लेवा, करिया' इत्यादौ दातुमित्यादि शलज्ञायोगे क्त्वा प्रत्ययोक्तौ तुम् । 'करी जाणुं, पढी सकउं' कर्त्तुं जानामि पठितुं शक्रोमि, इति । 'देवउं, लेबउं, करिवउं' इत्यादौ कर्मणि तव्यानीयौ - दातव्यं दानीयम्, कर्त्तव्यं करणीयम् । कचित् क्यप् घ्यणावपि - कृत्यं, कार्यं चेति । ‘देणाहरु, लेणाहरु, करणाहरु' इत्यादौ भविष्यति काले तुमन्तात् काममनसौ, तुमो मलोपश्च । दातुकामः दातुमनाः कर्त्तुकामः कर्त्तुमनाः । Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org
SR No.003411
Book TitleUktiratnakara
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages136
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy