________________
सहस्रऋषिकृता नन्दनृपकथा ।
॥ ॐ श्रीवीतरागाय नमः ॥
आद्य शक्ति प्रणम्यादौ देवीं सुमतिदायिनीम् । शिरसा सद्गुरुं नत्वा वक्षे नन्दकथानकम् ॥ १ ॥ श्रीपालपुरं नाम नागरैः परिशोभितम् । तत्रास्ते नृपतिर्नन्दो न्यायधर्मसमन्वितः ॥ २ ॥ एकदा मृगयार्थं हि तो राजा महावने । मृगस्य पृष्ठितो धावन् तृषाक्रान्तो गतः सरे ॥ ३॥ शीतलतोयसम्पूर्णे पद्मिनीखण्डमण्डिते ।
स्नात्वा पीत्वा जलं हृष्टः कौतुकं तत्र दृष्टवान् ॥ ४ ॥ सरस्यादूरसामन्ते यावद्राजा विलोकते । तावदलिकुलं दृष्टं गुंजन्तं दुर्वमण्डले ॥ ५ ॥ तं दृष्ट्वा विस्मयं प्राप्य चिन्तयामास मानसे । किमिदमद्भुतं दिव्यं रजकं तत्र पृच्छति ॥ ६ ॥
राजोवाच ।
चन्दनं नैव पद्मं च केतकी नैव दृश्यते । दूर्वायामलिवृन्दं यद् उच्यतां कारणं हि भोः ॥ ७ ॥
रजक उवाच ।
मन्त्रिणो तव राजेन्द्र ! पद्मगन्धा हि या प्रिया । तस्या वै वस्त्रगन्धेन दुर्वायां षट्पदै खम् ॥ ८ ॥ रजकस्य वचः श्रुत्वा विस्मयंगतमानसः । तस्या विलोकने जाता उत्कण्ठा हि गरीयसी ॥ ९ ॥ गृहमागत्य राजा वै उपायान्नविलोकयत् ।
मन्त्रिणं प्रेक्ष्य (य) कुत्रापि रात्रौ तत्र व्रजाम्यहम् ॥। १० । एवमाहूय तं राजा प्रेषयामास कुत्रचित् । aria प्रेरितः शीघ्रं तत्रैव गतवान् नृपः ॥ ११ ॥ द्वारमागतभूपालो द्वारपालेन वारितः । तावत् कामातुरो भूत्वा दत्तवान् रत्नकुण्डलौ ॥ १२ ॥
१७