________________
५३८-५३९]
पाठकश्रीजयसोमविरचित व्याख्या-सुकृतस्य पुण्यस्य अनुमोदनातः, साधु कृतं तीर्थयात्रादीति प्रशंसनाद् यत्पुण्यम्, मयका मया, अर्जितमुत्पादितम् , तेन पुण्येन, अखिलोऽपि समस्तोऽपि लोकः सुखी भवतु । च पुनर्धर्मनिरतो धर्मनिष्ठो भवत्विति । सतां हि मनोभिप्राय ईदृश एव भवति । यतस्ते चिन्तयन्ति'शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥' ५३७
साहिश्रीमदकब्बर-राजदिनादखिललोकसुखहेतोः। अष्टत्रिंशे वर्षे लाभकृते लाभपुरनगरे ॥ ५३८ नन्द्याद् वंशावलीग्रन्थो अथितोऽयं प्रमोदकृत् । आचन्द्रार्क शुभोदकं सत्सम्पर्क च वर्द्धयन् ॥ ५३९ - युग्मम् । ॥ इति मत्रिकर्मचन्द्रवंशावलीप्रबन्धः समाप्तः॥
व्याख्या-साहिश्रीमदकब्बरराज्यदिनात् पातसाहिश्रीअकबरस्य साम्राज्यप्राप्तिदिवसाद, अष्टत्रिंशे वर्षे, लाभपुर- " नगरे, अयं श्रीमन्त्रिराजवंशावलीवर्णनलक्षणो ग्रन्थो लाभकृते लाभार्थम् । कृत इत्यव्ययं तादर्थे । प्रथितः सन्दब्धः सन् , आचन्द्रार्क यावच्चन्द्ररवी तावन्नन्द्यानन्दतु समृद्धिमानोतु । आशिषि रूपम् । किविशिष्टात् साहिश्रीमदकब्बरराज्यदिनाद् ! अखिलानां समस्तानां सुखहेतोः सुखकारणात् । किम्भूतो ग्रन्थः ? प्रमोदं श्रोतृणां हर्ष करोतीति प्रमोदकृत् । पुनः किम्भूतः! शुभं श्रेय एवोदर्क आयतिभवं भविष्यत्कालजातं फलं शुभोदर्कस्तम् । च पुनः सत्सम्पर्क शोभनाभिधेयपरिज्ञानसंयोगमात्मनि वर्धयन् पल्लवयन् ॥ ५३८-५३९
॥ इति श्रीक्षेमशाखायां वाचनाचार्यश्रीप्रमोदमाणिक्यगणिशिष्यरत्नश्रीजयसोमोपाध्यायशिष्यवाचनाचार्यश्रीगुणविनयैः मत्रिराजश्रीकर्मचन्द्रवंशावलीवृत्तिः
सम्पूर्णा चक्रे ॥
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org