________________
५०० - ५०४ ]
पाठक श्रीजय सोमविरचित
७९
व्याख्या -दूषणैर्दोषैर्गुणैश्च सौजन्यादिभिः, परिपूर्णे निर्भरे नरे, खलो द्विजिह्नः, दोषगणरसिको दोषवृन्दग्राही भवति । किमु किम्, के लिवने रम्भाकानने, प्रविष्टोऽपीति गम्यते, करभस्त्रिहायण उष्ट्रः, कारेल्लिफलं न च खादति, अपि तु केलिदलानि परित्यज्य कारेल्लिफलमेव करभो ग्रसते । एवं दुर्जनो गुणदूषणवतोऽपि पुरुषस्य दूषणान्येव गृहीते न गुणान् ॥ ४९९
तेन खलानां शैली न शीलनीयेति मनसि परिभाव्य । गुणमात्रग्रहणार्थी जातोऽस्मि जनाः शृणुत इति भोः ! ॥ ५००
व्याख्या - तेन कारणेन, खलानां द्विजिह्वानम्, शैली रीतिर्दोषग्रहणरूपा, न शीलनीया निषेवणीयेति मनसि परिभाव्य आलोच्य, गुणमात्रग्रहणार्थी गुणानामेव ग्राहको जातोऽस्मीति भो जनाः । यूयं शृणुत ॥ ५०० दायका नायका रक्ता विरक्ता याचकाश्च ये ।
सर्वेऽपि वर्णनां वर्णाः सकर्णा अस्य कुर्वते ॥ ५०१
व्याख्या - दायका दातारो नायकाः स्वामिनो रक्ता रागिणो विरक्ता वैरङ्गिका याचका वनीपकाः, चः समुच्चये, ये जगति वर्तन्ते ते, तथा सर्वेऽपि वर्णा ब्राह्मणादयः, सकर्णाः सहृदयाः सश्रोत्राश्च, अस्य मन्त्रिराजस्य, वर्णनां स्तुतिं कुर्वते । सर्वेषामप्यसौ स्तवनीयः सुभगत्वादिति भावः ॥ ५०१
अदृष्टगुणलेशोऽपि वर्ण्यः स्याल्लोकवार्तया ।
अयं दृष्टगुणग्रामो न वर्ण्यः स्यात् कथं मम ॥ ५०२
व्याख्या - न दृष्टो वीक्षितो गुणलेशो गुणकणिका यस्य स एवंविधोऽपि पुरुषः, लोकवार्तया जनकिंवदन्त्या, वर्ण्यः स्यात् । स्वयं तस्य गुणा न दृष्टाः परं लोकैरुक्तास्ततः सोऽदृष्टगुणोऽपि लोकोत्त्या वर्ण्यते । अयं तु श्रीकर्मचन्द्रो दृष्टगुणग्रामः स्वनेत्राभ्यां वीक्षितगुणसमूहः, कथं केन प्रकारेण, मम न वर्ण्यः स्तवनीयः स्यात् ? अपि त्वसौ दृष्टगुणत्वात् स्तवनीय एवेति भावः । गुणशब्दाद् ग्रामशब्दः समूहार्थः । यदुक्तम्- 'ग्रामो विषयशब्दास्त्र - भूतेन्द्रियगुणाद् व्रजे ।' इति ॥ ५०२
देवभक्तो गुरोर्भक्तः सङ्घभक्तोऽतिथिप्रियः ।
चिरं जीयान्महामन्त्री कर्मचन्द्रः ससन्ततिः ॥ ५०३
यतः – “अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥" ५०३
-
Jain Education International
व्याख्या - कर्मचन्द्रो महामन्त्री, ससन्ततिः ससन्तानश्चिरं जीयाज्जयमासादयतु । किंविशिष्टो महामन्त्री ? देवानामर्द्दतां भक्तो भक्तिकृत् सेवको देवभक्तः । तथा गुरोर्जात्येकवचनं गुरूणां भक्तः । तथा सङ्घभक्तः साधु-साध्वी श्रावक-श्राविकारूपसमुदायपर्युपासकः । तथा अतिथयः प्राघूर्णका: प्रिया यस्य सोऽतिथिप्रियः । यद्गृहेऽतिथयः समेताः पूर्णमनोरथा यान्तीति भावः। ”
एवं स्वयं रोपितपुण्यकल्पवृक्षस्य भव्याः परिभाव्य भव्यम् । फलं विशेषेण विशुद्धभावजलेन सेक्यः कृतिना स एव ॥ ५०४
15
20
व्याख्या - एवममुना प्रकारेण भो भव्याः मुक्तिपर्यायेण भविष्यन्ति भव्याः सिद्धिगमनयोग्याः, न पुनरवश्यं सिद्धिगामिन एव । भव्यानामपि केषाञ्चित् सिद्धिगमनासम्भवात् । उक्तं च ' भव्वा वि न सिज्झिरसंति के' इत्यादि । स्वय- 10 मात्मना रोपित उत्पादितो यः पुण्यकल्पवृक्षस्तस्य भव्यं सुन्दरं फलं सर्वसम्पल्लक्षणं विभाव्य विचार्य, विशेषेण सादरम्, स एव पुण्य कल्पवृक्षः, कृतिना विचक्षणेन, विशुद्धो विशदो भावोऽभिप्राय एव जलं तेन सेक्यः सेचनीयः पल्लवनीयः । षिचींत क्षरणे । ऋहलोर्ण्यत् । 'चजोः कुधिण्यतोः' इति कुत्वम् । सेच्य इति पाठे त्वर्थे यत् । रोपित इति, रुह जन्मनि 'रुहः पोऽन्यतरस्यां ' इति णौ रुहः पः, ते रोपित इति ॥ ५०४
For Private & Personal Use Only
www.jainelibrary.org