________________
४८८-४९३]
पाठकश्रीजयसोमविरचित शश्लाघे च ततोऽखण्डा मण्डलेश्वरमण्डली ।
चन्द्रं चन्द्रमिवामात्यं द्वितीयायां पुरःस्थितम् ॥ ४८८ व्याख्या-चः समुच्चये, ततः साहिस्तवनानन्तरम् , अखण्डा पूर्णा, मण्डलेश्वराणां राज्ञाम् , मण्डली वृन्दम् , पुरःस्थितमग्रे स्थितम् , चन्द्रं श्रीकर्मचन्द्रममात्यम् , द्वितीयायां चन्द्रं शशिनमिव शश्लाघे श्लाघते स्म अस्तवीत् । यथा द्वितीयायामुदितश्चन्द्रः श्लाघ्यते तथा तं श्रीकर्मचन्द्रं सर्वेऽपि शश्लाघिरे ॥ ४८८
___ एवं शेषूसुरत्राणस्याग्रेऽपि विधृतोपदा ।
शेषस्यापि पुरस्तेने तेन ढोकनिका घना ॥ ४८९ व्याख्या- एवममुना प्रकारेण, यथा श्रीसाहेः पुरो धृता तथा शेषूसुरत्राणस्य अप्रेऽपि उपदा ढौकनं धृता, तथा शेषस्यापि अवलफइजलस्यापि पुरस्तेन मन्त्रिणा, घना बढी दौकनिका तेने विस्तारिता ॥ ४८९
इत्थं तथ्यां विधायाऽऽत्मसन्धां साधीयसीमसौ।
कृतकृत्योऽभवन्मश्री सिद्धमत्र इवाङ्गभृत् ॥ ४९० व्याख्या- इत्थममुना प्रकारेण, साधीयसीमतिशयेन दृढाम् , आत्मनः खस्य सन्धां प्रतिज्ञामात्मसन्धाम् – कोटिदानलक्षणाम् , तथ्यां सत्यां विधाय कृत्वा, मन्त्री श्रीकर्मचन्द्रः, कृतकृत्यो विहितप्रतिज्ञातकार्योऽभवत् । उत्प्रेक्ष्यते - अङ्गभृत् शरीरी सिद्धमन्त्र इव निष्पन्नमन्त्र इव । यथा पञ्चाङ्गो मन्त्रस्तरक्षणात् कृतकृत्यो भवति, तथाऽयमपि कृतकृत्योऽभवदित्यर्थः । यत् कौटिल्यः- 'कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः। 5 अतिशयेन बाढा साधीयसी । 'अन्तिकबाढयोर्नेदसाधौ' इति बाढस्य साधादेश इष्ठेयसोः । यद्वा सिद्धः पठितसिद्धो मन्त्रो हीकारादिः स इव ॥ ४९०
पूज्यैः पक्षचतुर्मासीसमापर्वसु शाश्वती ।
नमस्कारसमादिष्टिर्दिष्टा बोहित्थसन्ततेः॥ ४९१ व्याख्या-पूज्यैर्युगप्रधानगुरुभिः, पक्षशब्देन पाक्षिकं चतुर्दशीलक्षणं पर्व गृह्यते, तथा चतुर्मासीशब्देन चातुर्मा- 20 सि पर्व गृह्यते, समापर्वशब्देन सांवत्सरिकं पर्व गृह्यते, एतेषु शाश्वती नित्या बोहित्थसन्ततेः-बोहित्थराजसन्तानस्य नमस्कारसमादिष्टिः 'जयतिहुयणे त्यादिनमस्कारादेशो दिष्टा दत्ता । 'दिशीत् अतिसर्जने' त्यागे क्ते दिष्ट इति ॥ ४९१
अहो ! पुण्यमहो! भाग्यमहो! सौभाग्यमद्भुतम् ।
सर्वलोकातिशायी यन्महिमाऽस्य प्रसर्पति ॥ ४९२ व्याख्या- अहो इति सम्बोधनेऽव्ययम् , भो लोकाः ! शृण्वन्तु, अस्य श्रीकर्मचन्द्रस्य, अद्भुतमाश्चर्यकारि पुण्यं 25 पूर्वकृतसुकृतम् ; तथा अहो! अस्य अद्भुतं भाग्यं भागधेयम् ; तथा अहो। अस्य अद्भुतं सौभाग्यं सुभगता सर्वजनवाल्लभ्यम् । यद् यस्मादस्य मन्त्रिणो महिमा माहात्म्यम्, सर्वलोकानतिशेत इत्येवंशीलः सर्वलोकातिशायी। सर्वलोकमहिमभ्योऽप्यधिक इत्यर्थः । प्रसर्पति प्रसरति । स पृ गतौ ॥ ४९२
एवं सम्पति विजयी वनितासुतराज्यसम्पदा कलितः।
श्रीजिनशासनशोभाविधायको जगति सचिवेशः॥ ४९३ व्याख्या- एवममुना प्रकारेण, जगति विष्टपे, सचिवेशः श्रीकर्मचन्द्रः, सम्प्रति इदानीम् , विजयत इत्येवंशीलो विजयी विजयनशीलः । स्तादिति गम्यते । किंभूतः ? वनिता भार्या अजायबदे -जीवादे- कर्पूरदेव्यभिधाना मन्त्रिण्यः, सुतौ च श्रीभाग्यचन्द्र-श्रीलक्ष्मीचन्द्रौ कुमारौ, तैः सहिता या राज्यसम्पत् तया कलितः सहितः । तथा श्रीजिनशासनशोभाया विधायकः कर्ता ॥ ४९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org