SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४०५-४११] पाठकश्रीजयसोमविरचित व्याख्या-साहिना श्रीअकबरेण, एकादशसु शुम्बेषु 'पडगना' इति रूढ्या प्रसिद्धेषु, अमारिघोषणां कर्तुं फुरमानानि लेखयित्वा, अर्पितानि दत्तानि । अहो इति विस्मये ॥ ४०४ पातिसाहिमनोह्लादहेतवे निखिलैरपि । देशाधीशैः खदेशेषु वश-पश्चाधिकान् दिनान् ॥ ४०५ दिनानां विंशतिं कैश्चिदन्यैस्तत्पञ्चविंशतिम् । मासं मासद्वयं यावदपरैरभयं ददे ॥ ४०६ - युग्मम् । व्याख्या-पातिसाहेर्यो मनोह्लादो मनःप्रमोदस्तस्य हेतवे निमित्तं पातिसाहिमनोह्रादहेतवे, निखिलैरपि समस्तैरपि, देशाधीशैर्देशखामिभिः, खदेशेषु पश्चाधिकान् दशदिनान् पञ्चदशवासरान् यावत्, तथा कैश्चिद् राजभिर्दिनानां विंशतिं यावत्, तथा अन्यैस्तेषां दिनानां पञ्चविंशतिं तत्पञ्चविंशतिं यावत्, तथा अपरैर्मासं यावतू, अपरैर्मासद्वयं यावत्, अभयं जन्तूनां भयाभावो ददे। स्व-खदेशेषु तैः कथितदिनान् यावदमारिः प्रावळतेति भावः । दिनशब्दः पुनपुंसके । 'अभय- 10 मुशीरामीत्योः' इत्यनेकार्थः ॥ ४०५-४०६ ततोऽमात्याय निर्दिष्टं पूज्या लाभपुरे पुरे । तिष्ठन्तु मानसिंहास्तु सन्तु साकं मयाऽधुना ॥ ४०७ धर्मगोष्ठी मिथः कर्तुं धतु जीवदयाव्रतम् । अनार्यमार्यतां नेतुं देशं तीर्थनिवेशनात् ॥ ४०८ - युग्मम् । व्याख्या-ततोऽनन्तरम् , साहिना अमात्याय श्रीकर्मचन्द्राय, निर्दिष्टं कथितम् , यत्पूज्या लाभपुरे पुरे तिष्ठन्तु, मानसिंहास्तु मया साकं सार्धम् , अधुना इदानीं सन्तु । किं कर्तुम् ! मिथः परस्परम् , धर्मगोष्ठीं धर्मसंलापं कर्तुम्, तथा जीवदयाव्रतं धतुं धारयितुम् , तथा अनार्य देशं तीर्थनिवेशनात् तीर्थस्थापनादुपलक्षणाद् गोरक्षणाच्च आर्यतां नेतुं प्रापयितुम् – अनार्यमायं कर्तुमित्यर्थः ॥ ४०७-४०८ तथेत्युक्त्वा समं मन्त्री साहिनाऽचालयत्तराम् । मानसिंहान् निराबाधसंयमान् डुङ्गरान्वितान् ॥ ४०९ व्याख्या-मन्त्री श्रीकर्मचन्द्रः, तथेत्यभ्युपगमे, सायुक्तं तथेत्युक्त्वा, अभ्युपगम्येत्यर्थः। साहिना समं मानसिंहान् वाचनाचार्यश्रीमहिमराजान , अचालयत्तरामतिशयेन चालयति स्म । 'सहयुक्तेऽप्रधाने' इति सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । किम्भूतान् मानसिंहान् ! निराबाधो दोषैरदुष्टः संयमश्चारित्रं येषां ते निराबाधसंयमास्तान्, तथा डङ्गरोहर्षविशालर्षिस्तेन अन्वितान् सहितान् डुङ्गरान्वितान् । लोकप्रसिद्धत्वाच्छेदोपस्थापनीयदीक्षानाम परित्यज्य मानसिंह-डुङ्गारेति । खगृहनाम न्यस्तवान् कविः॥ ४०९ साहिनिर्दिष्टसावद्यव्यापारपरिशीलनात् । मुनीनां मा व्रताचारविलोपो भवतादिति ॥ ४१० विभाव्य मन्नतन्त्रादिनिपुणं दत्तवान् समम्। पञ्चाननं महात्मानं विनेयं मेघमालिनः॥४११ -युग्मम् । व्याख्या-साहिना निर्दिष्टाः कथिता ये सावधव्यापाराः सारम्भक्रियाः, तेषां परिशीलनात् निषेवणातू, मुनीनां साधूनाम् , मेति प्रतिषेधेऽव्ययम् , मा व्रताचारविलोपो नियमाचरणविध्वंसो भवतादिति विभाव्य विचार्य, मन्नो देवादिसाधनम् , महाबीजादि तन्त्रम्, अगदस्त आदौ येषां ज्योतिष्कादीनां ते मन्नतन्त्रादयस्तेषु निपुणं दक्षं मेघमालिनस्तद्गुरोविनेयं शिष्यं पश्चाननं महात्मानं महाशयम् , श्रीमानसिंहैः समं दत्तवान् ददौ । म. क. वं.प्र. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003400
Book TitleMantri Karmchandra Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy