________________
३४८ - ३५४]
पाठकश्रीजयसोमविरचित उपदादानतः साहिर्वरिवस्याविधानतः।
वशीकृतो वचोयुक्त्या येन सर्वातिशायिना ।। ३४८ व्याख्या-येन श्रीकर्मचन्द्रेण, साहिः, उपदा ढौकनं तस्या दानतो वितरणात् , तथा वरिवस्या परिचर्या तस्या विधानतः करणात् , तथा वचोयुक्त्या मधुरप्रस्तावोचितवचनयोजनेन, वशीकृतः खवशे नीतः । किम्भूतेन येन ? सर्वानतिशेतेऽधिकीभवतीति सर्वातिशायी तेन सर्वेभ्योऽप्यधिकेनेत्यर्थः ॥ ३४८
दर्शनं यस्य दुष्पापं स्पर्शनं किमु पादयोः।
वादनं तु प्रियैर्वाक्यैदूरे यस्य महीपतेः॥ ३४९ व्याख्या- यस्य महीपतेः श्रीसाहेः, दर्शनमवलोकनं दुष्प्रापं दुर्लभम् । किमु इति वितर्के, किमु किं पादयोश्चरणयोः स्पर्शनं पाणिभ्यां सङ्घट्टनम् , तद्धि विशेषतो दुष्प्रापमित्यर्थः । तु विशेषेऽव्ययम् , तु विशेषेण यस्य महीपतेः प्रियैर्मधुरैर्वाक्यदिनमुल्लापनम् , दूर आरात्, मधुरवाक्यैर्वादनं तु बहुभिः पुण्यैः प्राप्यत इत्यर्थः ॥ ३४९
दर्शनं स्पर्शनं वाक्यैर्मधुरैर्वादनं तदा।
युगपद् यस्य सम्पन्नं श्रीसाहेः सर्वसाक्षिकम् ॥ ३५० व्याख्या-तदा तस्मिन्नवसरे, यस्य श्रीमन्त्रिणः, सर्वसाक्षिकं सर्वसभाजनप्रत्यक्षम् , श्रीसाहेः, युगपत् समकालं दर्शनं नेत्राभ्याम् , स्पर्शनं साहिपादयोः, मधुरैर्वाक्यैर्वादनमुल्लापनम् , सम्पन्नं सम्प्राप्तम् ॥ ३५०
दर्शनादादिमादेव प्राप साहीशमानसम् ।
प्रसन्नतामदोऽवादीत् तमुत्साहयितुं ततः॥ ३५१ व्याख्या-आदिमादेव प्रथमादेव दर्शनात् , श्रीमत्र्यवलोकनात्, साहीनामीशः खामी साहीशः श्रीअकबरस्तस्य मानसं साहीशमानसम्, प्रसन्नता प्राप प्रसन्नमभवदित्यर्थः। ततोऽनन्तरं श्रीसाहिस्तं श्रीमत्रिराजमुत्साहयितुमुधमयितुमदो वक्ष्यमाणमवादीत् ॥ ३५१ तदेवाह - चिरं मृगयमाणस्य पुमांसं राज्यचिन्तकम् ।
प्रापितस्त्वं प्रसन्नेन ममाकस्मान्महात्मना ॥ ३५२ र व्याख्या-हे मनिन् ! चिरं चिरकालं यावद् राज्यचिन्तकं राज्यचिन्ताकारकं पुमांसं पुरुषम्, मृगयमाणस्य अवलोकयतो मम, अकस्मादित्यतर्कितोपनतेऽव्ययम् , अकस्मादविचारितमेव, प्रसन्नेन ममोपर्यनुग्रहोपेतेन, महात्मना परमेश्वरेण, त्वं प्रापित उपढौकितः । मृगयमाणस्येति 'मृगणि अन्वेषणे' ॥ ३५२
चिन्तां मा कुरुताच्चित्ते पश्य त्वमचिरादहम् ।
महान्तं त्वां विधास्यामि वारिवाह इवाङ्कुरम् ॥ ३५३ व्याख्या-हे मन्निन् ! त्वं चित्ते मनसि, चिन्तां दुरध्यवसायम् , मा कुरुतान्मा कुरु । त्वं पश्य अचिरात् स्तोकेनैव कालेन, त्वां महान्तं सकलनृपमुख्यं विधाताऽस्मि कर्ताऽस्मि । करिष्यामीति भावः। कः कमिव ! वारिवाहो मेघोऽङ्करमिव । यथा वारिवाहोऽङ्करं प्ररोहं महान्तं करोति वर्धयति तथा त्वामपि करिष्यामीत्यर्थः ॥ ३५३ - अहो भाग्यमहो भाग्यमहो सौभाग्यमद्भुतम् ।
समेषामपि लोकानां तदा गीरित्यभूत्तराम् ॥ ३५४ व्याख्या- अहो इति विस्मयेऽव्ययम्, अस्येति गम्यते । अस्य मन्त्रिणोऽहो भाग्यमहो भाग्यं भागधेयम् , राभस्ये द्विरुक्तिः । अहोऽद्भुतं सौभाग्यं जनवाल्लभ्यमित्यमुना प्रकारेण, समेषामपि सर्वेषामपि, लोकानां द्रष्टुजनानाम् , तदा मन्त्रिणः साहिमिलनावसरे गीर्वाण्यभूत्तरामतिशयेन बभूव ॥ ३५४
म. क. वं.प्र.८
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only