________________
१३३ - १३७ ]
पाठक श्रीजय सोमविरचित
विशिष्टबुधेन सहितो यो गुरुर्बृहस्पतिस्तस्य । शाकपार्थिवादित्वान्मध्यपदलोपी समासः । यद्वा विबुधा देवास्तेषां गुरुराचार्यो बृहस्पतिस्तस्य सान्निध्यात् । केन्द्रे सन्निधानान्महन्माहात्म्यं दोषक्षयलक्षणं भवति । यदुक्तं रत्नमालायाम् -
'दोषाणां शतमपहन्ति सोमपुत्रः, केन्द्रस्थो धूनमपहाय दृश्यमूर्तिः । दैत्यो ज्याद्विगुणमिदं बलीयानाचार्यः शमयति लक्षमप्यवश्यम् ॥'
बुधः सप्तमं परित्यज्य अन्यकेन्द्रस्थो दोषाणां लत्तापातवेधवर्जमन्येषां शतं हन्ति । शतशब्दो बहुत्ववाचकः । शुक्रः पुनः सप्तमवर्जं केन्द्रस्थो बुधाद् द्विगुणफलः । गुरुस्तु सप्तमवर्ज बुध-शुक्राभ्यां सहस्रबलः । एतेषु केन्द्रस्थेषु विवाहः श्रेष्ठ इति तद्वृत्तौ ॥ १३२
राजद्वारे ववृधे सगुणं तेजोऽस्य पुण्ययोगेन ।
दिनवृद्धियुतं सवितुस्तेज इव प्राप्य सदुदीचीम् ॥ १३३
व्याख्या - अस्य वत्सराजस्य राजद्वारे विक्रमनृपसदसि, पुण्ययोगेन पूर्वकृतसुकृतसंयोगेन, सगुणं गुणैरौदार्यधैर्यशौर्यादिभिः सहितं, तेजः प्रतापो, ववृधे वृद्धिमाप । गुणा अवर्धन्त । तेजोऽप्यवर्धत । कां प्राप्य कस्य किमिव ? - उदीचीमुत्तरां प्राप्य, दिनवृद्धियुतं, सवितुः सूर्यस्य, सत्प्रधानं तेज इव धामेव । यथोदीचीं प्राप्योत्तरायणे दिनवृद्ध्या युतमन्वितं खेस्तेजो वर्धते। उत्तरायणे हिमकरादितो दिनान्यपि वर्धन्ते रवेस्तेजोऽपि वर्धते । 'तेजस्विडूरेतसोर्बले, नवनीते प्रभावेऽग्नौ' – प्रभावः प्रताप इति ॥ १३३
1
-
विश्वासास्पदमभवद् मतिविभवाद् राज्यकार्यकारित्वात् । सचिवस्तदेव वस्तूच्यते बुधैर्यत् स्वकार्यकरम् ॥ १.३४
व्याख्या - सचिवो वत्सराजमन्त्री, मतिविभवाद् बुद्धिधनात्, राज्यकार्याणि करोत्येवंशीलो राज्यकार्यकारी तद्भावो राज्यकार्यकारित्वं तस्मात् । विश्वासास्पदं राज्ञो विश्वम्भाश्रयोऽभवत् । यद् यस्मात्तदेव, बुधैः पण्डितैर्वस्तूच्यते कथ्यते । यत् स्वकार्यकरं खकार्यकर्तृ । 'यदेव कार्यकारि तदेव परमार्थसद्' इत्युक्तेः ॥ १३४
1
२५
प्रष्टव्यो भूभर्तुर्मत्रेषु विचित्रवस्तुविषयेषु ।
मीश्वरो विचारे चतुरोऽभूद् वत्सराजोऽत्र ॥ १३५
Jain Education International
व्याख्या – 'रहस्यालोचनं मन्त्रः' अत्र कोडिमदेसरसि, मनीश्वरो वत्सराजो, भूभर्तुर्विक्रमस्य, विचित्रवस्तुविषयेषु नानाविधराजकार्यगोचरेषु मन्त्रेषु, प्रष्टव्योऽनुयोक्तव्योऽभूत् । किम्भूतः ! विचारे सदसद्विमर्शो विचारस्तस्मिन् चतुरः कुशलः ॥ १३५ विधिवच्चतुर उपायान् सामादीन् यो विधाय मतिकलितः । उपधाशुद्धो राज्यं शशास सुमनोमनोऽभिमतः ॥ १३६
व्याख्या - - यो वत्सराजः, चतुरश्चतुः संख्यान्, सामादीन् सामदानभेददण्डरूपान्, उपाया द्रव्योपार्जन हेतवस्तान्, विधिवद् यथोक्तविधिना, विधाय कृत्वा, राज्यं शशास पालयति स्म । किम्भूतः ! मतिकलितः सद्धिषणः । पुनः किम्भूतः ? उपधाशुद्धः – भिया धर्मार्थकामैश्च याऽमात्यानां परीक्षा सोपवेत्युच्यते तया शुद्धो निर्दोषः । शुद्धवर्णवत्परीक्षा प्राप्त इत्यर्थः । तथा सुमनसां प्राज्ञानां मनस्यभिमतोऽभीष्टः । साम सान्त्वनं दानं वितरणमुपजापः पुनर्भेदो दण्डः स्यात् साहसं विधिवदिति विधिमर्हतीत्यर्हार्थे वतिः ॥ १३६
परभूमीपश्चाननबिरुदं सम्प्राप्तवान् स भाग्येन
कृतसङ्घः शत्रुञ्जयशैलादिषु संव्यधाद् यात्राम् ॥ १३७
व्याख्या - स वत्सराजः, 'पर भूमी पञ्चा न ने'ति बिरुदं लोकप्रसिद्धं प्रवाद, भाग्येन भागधेयेन, सम्प्राप्तवान् । तथा कृतः सङ्घो लोकप्रसिद्धो येन स कृतसङ्घः, शत्रुञ्जयशैलादिषु विमलाचलप्रभृतितीर्थेषु, यात्रां संव्यधाच्चकार ॥ १३७
म० क० नं० प्र० ४
For Private & Personal Use Only
10
15
20
25
www.jainelibrary.org